________________
गोडबोलेकृतः
कृद्रहणस्य तद्धितनियमेन परेण बाधात् । न च बाध्यसामान्यचिन्तायां परस्यापि तद्धितनियमस्य गृहणेनैव बाधः सुवचः, समासनियमस्यापि बाधापत्तौ मूलकेनोपदंशमिति वाक्यस्य निवृत्तिप्रसङ्ग इति दीक्षितानामाशय इत्युत्तरयांचक्रुः । __ अत्र नामग्रहणादरुचि न्यते कृग्रहणस्य नियामकत्वादयं दोषो दुर्वचः । तद्धितग्रहणस्यैव नियामकत्वे ह्ययं दोषः । ___ अस्तु वा कैयटानुसाराकृद्हणस्य विध्यर्थत्वं तथापि न दोषः । बाध्यसामान्यचिन्तायां परस्यापि तद्धितनियमस्य बाधात् । मूलकेनोपदंशमित्यादौ तु शब्दाधिकारमाश्रित्यार्थवद्हणानुवृत्तावेकार्थीभावविवक्षणान दोषः । स्वीकृतं चैवमेव कौस्तुभ इति ।
यत्तु सात्पदाद्योरिति सातिग्रहणात्प्रत्ययो न प्रातिपदिकमिति सिद्धे पूर्वसूत्रस्थप्रत्ययग्रहणं सामर्थ्यात्तदन्तपरमित्युक्तम् । तच्चिन्त्यम् । प्रत्ययप्रातिपदिकत्वाभावज्ञापकताया दूषितत्वात् । न च ङयाग्रहणमेव प्रत्ययप्रातिपदिकत्वाभावज्ञापकमस्तु, अस्तु कृत्तद्धितग्रहणं विध्यर्थमिति शङ्कनीयम । लिङ्गविशिष्टपरिभाषया सिद्धेरज्ञापकत्वात् । न चाप्रत्यय इति बहुव्रीहिरवास्त्विति चेन्मैवं, तथा सति बहुपटु इत्यस्य संज्ञाभावप्रसङ्गात् । एवं स्थिते प्रत्ययान्तपर्युदासो मास्त्विति सिद्धम् ।
इहार्थवत्यनेकपदप्रसङ्ग इति वार्तिकम् । तत्रानेकं च तत्पदं चेति विग्रहः । अनेकस्यापि पदस्येति व्याख्यानुरोधात् । अत्र च समुदितस्येति बोध्यम् । अप्रत्यय इत्युक्ते प्रतिपदप्रसङ्गात् ।।
कैयटस्त्वनेक पदमस्मिन्नित्यनेकपदं समुदाय इति व्याख्यत् । न च समुदायस्याप्रसङ्गः । प्रत्ययग्रहणे यस्मात्स विहित इति वचनात्समुदायस्याप्रत्ययान्तत्वात् । गवानदित्यादेराचक्षाणणिच्प्रकृतिककिबन्तसमुदायस्य प्रत्ययान्तत्वेऽप्यवाक्यत्वान्न दोषः । न च स्वस्वार्थप्रातिपदिकपदानामाकाङ्क्षासन्निधियोग्यता च संसृष्टतदर्थानां च वाक्यवाक्यार्थत्वे वाक्यस्य नित्यध्वनिव्यङ्गयत्वात् , पदार्थसंसर्गरूपविशिष्टार्थस्य च तद्वाच्यत्वात् । अन्यथा शब्दजन्यप्रतीतिविषयताशालित्वानापत्तेः ।
न चाशक्योऽपि संसों वाक्यसामर्थ्याद्भासते अननुगमात् । परेषां तु वाक्यस्याशक्यत्वात्समासग्रहो व्यर्थ एव स्यात् । न चेष्टापत्तिः अर्थवसमुदायानां समासग्रहणं नियमार्थमिति ग्रन्थानवतारप्रसङ्गात् । अर्थव