SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रातिपदिकसंज्ञावादः। अन्यथा जश्त्वशास्त्रप्रवृत्त्युत्तरकाले चर्वशास्त्रस्य चारितार्थ्यान्नापवादकत्वं स्यात् । तत्र हि जश्त्वशास्त्रप्रवृत्तिकाले नियतप्राप्तत्वेन तत्प्राप्तिविषये चारितार्थ्याभावमात्रेण येननाप्राप्तिन्यायेन तदपवादकत्वम् । अन्यथा ब्राह्मणत्वावच्छेदेन विहितदधिदानस्य कौण्डिन्योद्देश्यकतक्रदानेन बाधो न स्यात् । तदानात्पूर्व तदुत्तरं वा चारितार्थ्यात् ।। _ कौण्डिन्यस्य दधिदानप्राप्तिस्तु न, ब्राह्मणेभ्यो दधि देयं न कौण्डिन्याय देयमित्यत्र न देयमिति विशेषनिषेधश्रुत्या ब्राह्मणेभ्यो दधीत्यादौ ब्राह्मणपदस्य कौण्डिन्यातिरिक्तब्राह्मणपरत्वेन तद्वाक्यस्य कौण्डिन्यातिरिक्तत्राह्मणसंप्रदानकदाधिदानबोषकत्वादिति दीधितिकारादयः । किंच पादोन्यतरस्यामित्यस्य टाबृचीत्यपवादो न स्यात् । तदभावपक्षेऽस्य चारितार्थ्यात् । तस्मादुक्तमेव रमणीयम् । सत्यपि संभवे बाधनं भवतीति मिदचोन्त्यादिसूत्रस्थं भाष्यमप्यत एव संगच्छते । लविधौ तिबादिविधौ च भूवादय इत्यस्योपस्थितेर्निरवकाशतया न सुबुत्पत्तिरित्यपि केचित् । न चैवमपि नलोपो दुर्वारः, नलोपसूत्रेप्रातिपदिकग्रहणस्य सत्वप्रधानप्रातिपदिकप्रहार्थत्वात् । रामानित्यादौ तु विधानसामर्थ्यान्न लोप इति । एवं स्थिते कृद्हणस्य नियामकत्वमपि. संगतम् । कैयटस्तु कृत्तद्धितग्रहणमिति प्रतीकमुपादाय तद्धितग्रहणमत्र नियमार्थ कृतहणं प्रतिषेधार्थ भिछिद् इति । अत्र त्वधातुरिति प्रतिषेधप्रसङ्ग इत्याह । यत्तु प्रत्ययपर्युदासे सात्पदाद्योरिति सूत्रे सातिग्रहणं व्यर्थ स्यादिति मनोरमायामुक्तं तञ्चिन्त्यम् । सोढदूसमरीसजर्थत्वात् । आचक्षाणणिजन्तात् विप्यनिष्टरूपप्रसङ्गात् । सोढे दोषस्य दुरुद्धरत्वात् । आदेशप्रत्यययोरित्यत्र सागणाद्वसिग्रहणाच नोभयत्र सामानाधिकरण्यं वैयधिकरण्यं च, तत्र प्रत्ययावयववृत्तित्वात्प्रत्ययशब्दस्य सामानाधिकरण्येऽपि वैयधिकरण्यफललाभ इति कैयटेनार्थवत्ताध्वननाञ्च । गुरुचरणाऽस्तु प्रत्ययान्तं चेति प्रतीकमुपादाय, ननु प्रत्ययान्सपर्युदासो व्यर्थः कृत्तद्धितेतिसूत्रे लिड्धुगित्यादावधातुपयुदासबाधाय कृग्रहणस्य विधायकत्वेऽपि तद्धितग्रहणस्य प्रत्ययान्तस्य चेत्प्रातिपदिकत्वं तर्हि तद्धितान्तस्यैवेति नियमार्थतया तद्धितेतरप्रत्ययान्तस्य प्रातिपदिकसंज्ञाव्यावृत्तिसिद्धेरिति चेदित्याशङ्कय कर्ता कारक इत्यादावपि संज्ञानिवृत्तिप्रसङ्गः स्यात् ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy