SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ .. गोडबोलेकृतः .. एवं स्थिते श्येनायत इत्यादेः प्रातिपदिकत्वेनैव सुब्लुकि सिद्धे सुपोधात्वित्सत्र क्रियमाणं धातुग्रहणमेव ज्ञापयति न धातोः प्रातिपदिकत्वं भवतीति धातुपर्युदासो मास्त्विति । तथाप्युत्तरग्रन्थविरोधान्न स्थिरमेतत् । __ यत्तु उक्तरीत्या प्रत्ययान्तपर्युदासो न • कार्य इति सूत्रशेषे भाष्ये ध्वनितमित्युक्तं तच्चिन्त्यम् । अप्रत्यय इति पर्युदासप्रसज्यप्रतिषेधपपक्षयोरुभयोरपि पूर्वान्तवत्त्वेन प्रातिपदिकत्वेन ह्रस्वत्वे प्रसक्ते विभत्तयेकदेशस्य पूर्वान्तवत्त्वाभावे ह्रस्वसूत्रगतप्रातिपदिकग्रहणस्य ज्ञापकत्वेनोदाहरणात् । अन्यथा ज्ञापकत्वे प्रत्युक्ते पूर्वभाष्यग्रन्थस्यालग्नकतापत्तेः । पूर्वभाष्यदूषणतात्पर्यककैयटग्रन्थस्तु प्रामादिक एवेत्यनुपदं वक्ष्यते इति सहृदयैर्विवचनीयम् । 'प्रत्यय इति किं काण्डे कुड्येऽप्रत्यय इति शक्यमवक्तुम् । कस्मान्न भवति काण्डे कुड्ये इति । कृत्तद्धितग्रहणं नियमा भविष्यति कृत्तद्धितान्तस्यैव प्रत्ययान्तस्य प्रातिपदिकसंज्ञा भवति नान्यस्य' इति भाष्यम् । इदं च प्रत्ययान्तपर्युदासखण्डनपरम् । तथा हि अप्रत्यय इत्यत्र प्रत्ययपदं प्रत्ययान्तपरं पर्युदासपक्षे संज्ञाविधौ तदन्तविध्यभावेऽपि विभक्तीतरानपेक्षयार्थबोधकत्वरूपार्थवत्त्वग्रहात्प्रत्ययपर्युदासवैयर्थ्यात्तात्पर्यानुपपत्त्या प्रत्ययान्ते लक्षणासत्त्वात् । स च प्रत्ययान्तपर्युदासो न कार्यः । प्रत्ययान्तस्य चेत्कृत्तद्धितान्तस्यैवेति नियमाश्रयणात् । इह कृद्हणनियामकत्वकथनेन धातुपर्युदासखण्डनमप्यभिप्रेतम् । तद्धीति(?)धातोः प्रातिपदिकत्वे न कापि क्षतिः । __ यथोद्देशेऽहन्नित्यादौ धातोः प्रातिपदिकत्वेन सुबापादनं दुर्वचम् । येन नाप्राप्तिन्यायेन तिबादीनामपवादकत्वात् । तल्लोपाव्यवहितोत्तरक्षणेऽपि न तत्प्राप्तिः अपवादविषयपरिहारेणोत्सर्गस्य प्रवृत्तेः । परिहत्यापवादविषयमुत्सर्गोऽभिनिविशत इति स्मरणाच्च । न च यत्रापवादश्रुतिस्तत्र नोत्सर्गोऽत्र तु नापवादश्रुतिः । देवदत्तहन्तृन्यायेन सुपउन्मजनात् । न च "तौ सत्' इत्यादिनिर्देशैस्तन्न्यायस्यानित्यत्वम् । हते देवदत्ते तद्धन्तरि हतेऽपि नोन्सजनम् । देवदत्तस्य हतत्वारोपे तु सुतरां हन्तुमुद्यतस्य हनने तूजीवनं भवत्येवेति न्यायशरीरम् । तावित्यादौ वृद्धिहन्तुः पूर्वसवर्णस्य हननोद्यमसजातयिप्रसङ्गमात्रं न तु हननस्थानीया लक्ष्ये प्रवृत्तिरिति न तत्रैतन्यायविषय इति (न) तेनास्यानित्यत्वबोधनमित्यभिधानात् ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy