________________
प्रातिपदिकसंझावादः। धातुपर्युदासोऽहन्नित्यादौ नलोपवारणार्थः । यथोद्देशपक्षे विशेषविहितैस्तिबादिभिर्बाधान्न सत्यपि प्रातिपदिकत्वे सुबायुत्पत्तिर्न वा नलोप इति धातुपर्युदासस्याप्रयोजकत्वेऽपि कार्यकालपक्षे विशेषविहितानां लोपेन लोपविध्येकवाक्यतापन्नप्रातिपदिकत्वेन नलोपो दुर्वार इति तद्वारणाय धातुपर्युदास आवश्यक एव । न च प्रत्ययलक्षणेन प्रत्ययान्तप्रतिषेधेनैव निर्वाहे मास्तु धातुपर्युदास इति वाच्यम् । न डिसंबुद्ध्योरितिज्ञापकात् नलोपे विधीयमाने प्रत्ययलक्षणेनाऽप्रत्यय इति निषेधाभावात् । __ यत्तु प्रत्ययलक्षणेन प्रत्ययान्तपर्युदास इत्युक्तं तश्चिन्त्यं, प्रत्ययान्तभिन्नकार्यत्वेन प्रत्ययलक्षणाभावात् । अत एव सूत्रशेषभाष्ये राजा तक्षा प्रत्ययलक्षणेन प्रत्ययो नेति प्रतिषेधः प्राप्नोतीत्युक्त्वा तदापि दूषणखण्डनाय ' अथवा पुनरस्तु पर्युदासः' इत्युक्तम् ।
पर्युदासेऽपि प्रत्ययलक्षणे तूक्तदूषणतावस्थ्यादथवेतिग्रन्थोऽसंगत एव स्यात् । इह 'अधातुरिति शक्यमवक्तुम् । कस्मान्न भवति अहन्वृत्रहन्निति । आचार्यप्रवृत्तिापयति न धातोः प्रातिपदिकसंज्ञा भवतीति । यदयं सुपो धातुप्रातिपदिकयोरिति धातुग्रहणं करोति । नैतदस्ति ज्ञापकं प्रतिषिद्धार्थमेतत्स्यात् ' इति भाष्यं प्रत्ययान्तखण्डनपरं न धातुपर्युदासखण्डनपरमिति कृत्तद्धितान्तस्यैवेति नियमो भविष्यति इत्यादिभाष्यानुवादेन स्फुटीकरिष्यामः ।
अत्र भाष्ये प्रतिषिद्धार्थमेतत्स्वादित्यस्योदाहरणं श्येनायत इति । अत्राप्रत्यय इति प्रातिपदिकसंज्ञाया निषिद्धत्वादन्तर्वर्तिसुब्लोपार्थ धातुग्रहणस्यावश्यकतैवेति भावः ।।
यद्यपि शक्यमवक्तुमिति ग्रन्थात्कुशकाशावलम्बनेहैव धातुपर्युदासखण्डनपरमिदमिति प्रतीयते । तथा हि प्रत्ययान्तस्य प्रातिपदिकत्वे न किंचिदनिष्टम् । न च काण्डे कुड्य इत्यादौ ह्रस्वो नपुंसक इति ह्रस्वप्रसङ्गः, नपुंसकवृत्तित्वस्य प्रातिपदिकधर्मत्वेन नपुंसके च वर्तमानस्येत्यर्थेनवै सिद्धे प्रातिपदिकग्रहणस्य सत्वप्रधानप्रातिपदिकग्रहणार्थत्वज्ञापनात् । न च सुबुत्पत्तिः, संख्याकर्मादेरेभावात् । नाऽपि हुंफडादिवत्प्रातिपदिकत्वसामर्थ्यादौत्सर्गिकैकवचनापत्तिः, सुप्तिङन्तसूत्रस्थ तिमहणेन तदनुत्पत्तिबोधनात् । न च सुपो धात्विति लुगापत्तिः, धातुसाहचर्येण विभक्तीतरसमभिव्याहृतस्यैव तेन लुग्विधानात् । पचेरन्सर्वस्मिन्नित्यादौ तूचारणसामान्न लोपः ।