SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ गोडबोलेकृतः नन्वनर्थकाना प्रातिपदिकत्वे का क्षतिरितिचेत् वनं धनमित्यादौ जश्त्वादिप्रसङ्ग इत्यवेहि । समुदायस्य पृथक्प्रातिपदिकत्वाद्विभक्तेः श्रवणं न स्यादिति तु विशेषः । २ ननु धातुप्रत्ययपर्युदासादर्थवतो लाभेऽर्थवद्ग्रहणमनर्थकम् । न च प्रसज्यप्रतिषेधः, वाक्यभेदात्समासदोषप्रसङ्गात् । सादृश्यं त्वर्थवत्त्वेनैवेति चेन्मैवं वोचः । पर्युदासाश्रयणे केन रूपेण सादृश्यमित्यप्रतिपत्तिप्रसङ्गात् । असत्त्ववचनत्वस्यापि सादृश्यप्रयोजकधर्मत्वात्तद्धर्माणां हिरुगादीनामेव संज्ञाप्रसङ्गात् । न च कारकान्वयितावच्छेदकरूपवस्वरूपासत्त्वभूतत्ववदबोधकत्वान्न तद्धर्मेण सादृश्यमिति वाच्यम् । लिङ्गसंख्याद्यन्यतरानन्वयित्वरूपस्य तस्य भर्तृहुर्यादिसिद्धान्तव्यवस्थापकैर्बुधैः सिद्धान्तितत्वादत्र च सत्त्वात् । अर्थवत्त्वेनैव सादृश्यमिति वदतां तु धातुप्रत्ययपर्युदासाश्रयणादर्थवत एव संज्ञा भविष्यति नाथऽर्थवद्ग्रहणेनेत्याशङ्कयाह इत्यर्थवदिति ग्रन्थावतारणं कैयटोक्तमलग्नकं स्यात् । एतेन नञिवयुक्तन्यायानित्यत्वज्ञापकमर्थवद्रहणमित्थं चोषधेश्चेत्यादौ विभक्तिकारकग्रहणयोरेव प्रत्याख्यानसंभव इति परास्तम् । यदपि पर्युदासेनार्थवत्त्वं यद्यपि लभ्यते तथाप्युत्तरार्थं तदित्युक्तं तदप्येतेन प्रत्युक्तम् । पर्युदासादर्थवत्त्वे लब्धेऽर्थवद्ग्रहणमुत्तरार्थमिह तु स्पष्टार्थमिति कौस्तुभस्तु चिन्त्य एव । न च पूर्वसूत्रस्थार्थग्रहणस्य सार्थक्यापत्त्या कृत्तद्धितसूत्रे तदन्तविधिज्ञापकता न स्यात् । तदन्तविध्यभावस्तु संज्ञाविधौ प्रत्ययग्रहणे तद्न्तविधिर्नास्तीति वचनादिति वाच्यम् । तस्य सार्थक्येऽपि तदंशे स्वरितत्वप्रतिज्ञासामर्थ्यात्तदन्तविधिज्ञापकतासंभवात् । न च सुप्तिसूत्रस्थभाष्यविरोधः 'अर्थवदिति वर्तते कृत्तद्धितान्तं चैवार्थवत् । न केवलाः कृतस्तद्धिता वा' इति हि तत्र भाष्यम् । तस्य चकृत्तद्धितानामर्थवत्त्वाव्यभिचारादनुवृत्तस्यार्थवत्पदस्याव्यावर्तकतायामपि स्वरितत्वप्रतिज्ञासामर्थ्याद्विशिष्टार्थवत्युपसंहारवदित्याशयात् । एतेन उत्तरार्थमेवेति सुप्तिङन्तमिति सूत्रे भाष्ये ध्वनितमित्यपास्तम् । स्वरितत्वप्रतिज्ञायां त्वर्थवदिति वर्तत इति भाष्यमेव मानम् । यत्तु न च पूर्वसूत्रे चरितार्थता धातुप्रत्ययपर्युदासेनैव तल्लाभादित्युक्तं तञ्चिन्त्यम् । उक्तभाष्यविरोधादिति ध्येयम् ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy