SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्रातिपदिकसंज्ञावादः। श्रीगणेशाय नमः हेरम्बभानुवाग्देवीफणीन्द्राणामहर्निशम् । तथा गुरोः पदाब्जानि प्रणिपत्य पुनः पुनः ॥१॥ विचार्यतेऽर्थवत्सूत्रे किंचिदेव कुतूहलात् ।। अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ।। अभिधेयवचनोऽत्र अर्थशब्द आश्रीयते इति कैयटः । अभिधेयसामान्यवचन एवेति तदर्थः । धातुप्रत्ययपर्युदासवैयापातादभिधेयविशेषवचनस्याग्रहणमिति स्फोटयितुं सामान्येत्युक्तम् । प्रयोजनवदभिधेयवचनग्रहे कूचीमश्यादिष्वप्यतिप्रसङ्गः । न चेष्टापत्तिः । साधुत्वेन. प्रयोगार्हत्वप्रसङ्गात् । व्याकरणनिष्पन्नत्वस्यैव तत्त्वात् । प्रमात्मकशाब्दबोधजनकत्वस्यापि सत्त्वात् । न च पुण्यजनकतावच्छेदकरूपवत्त्वमेव तत्त्वं, तच्चात्र नास्तीति वाच्यम् । व्याकरणनिष्पाद्यत्वस्यैव तत्सत्तागमकत्वात् । एवं सद्व्यवच्छेदबोधनायैवकारोपादानम् । . इहार्थवदिति विशिष्टसंज्ञिव्यपदेशार्थ, तत्फलं तु दश दाडिमानि षडपूपा इत्यादेरनर्थक-पघटित-समुदायस्य तदितरघटकवर्णसमुदायस्य च संज्ञातिप्रसङ्गभङ्ग इति भगवद्भाष्यकारचरणाः । समासोभयकृतनियमेनोभयवाक्यकरणादिह न कश्चिद्दोष इति कश्चित् । ननु संख्याकर्मादिषु सुपा विधानादर्थवद्य एव स्वाद्युत्पत्तिर्भविष्यति इत्यनर्थकानां प्रातिपदिकत्वेऽपि न कश्चिद्दोष इत्यर्थवद्ग्रहोऽनर्थक एवेति चेन्मैवम् । अविशेषेण स्वाद्युत्पत्तौ तत्तदर्थानां तत्तत्प्रत्ययान्तरसंबन्धव्यवच्छेदफलकस्य तत्तत्प्रत्ययानां, तत्तदर्थान्तरसंबन्धव्यवच्छेदफलकस्य च नियमस्याभ्युपगमात् । अर्थवद्वर्णघटितसमुदायघटकेभ्य एकाद्विर्वचनन्यायेन समुदायोत्तरविभक्त्यैव यावदवयवैकत्वबोधनसंभवान्न प्रत्येकं विभक्तिरिति वर्णानामर्थवत्तानिरूपणप्रस्तावे 'संघातस्यैकार्थ्यात्सुबभावो वर्णात् ' इति वार्तिकव्याख्यावसरे हयवरट्सूत्रस्थभाष्यकैयटयोः स्फुटतरं द्रष्टव्यम् ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy