________________
मौनिश्रीकृष्णविरचिता
यद्वा लाघवादोषाभावाद्धृनिव्यङ्गयस्यान्यस्याभावाच वर्णत्वस्वीकारः । न च ध्वनिव्यङ्गयत्वस्य गुणीभूतव्यङ्गथप्रभेदे काकाक्षिप्तस्यापि अन्यस्य संभव इति वाच्यम् । तस्य ध्वनिविकारकाकुव्यङ्गयत्वेऽपि ध्वनिव्यङ्गयत्वाभावात्।
किंच 'कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा भीः ह्रीः इत्येतत्सर्व मन एव' इति श्रुत्या कामादीनां मनोधर्मत्वे प्रतिपादितेऽपि तार्किकैरात्मधर्मत्वमुक्तं तच्च सर्वैरप्यङ्गीकृतं, तत्तु भ्रमात्मकं तद्बीजं तु यथा जपाकुसुमसंनिधाने स्फटिको लोहित इति ज्ञानम् । प्रकृते तु मनःसांनिध्यमात्मधर्मे बीजं श्रुतिबाधश्च । स्फोटे तु न तथा । तस्मादेकवर्णात्मकोऽखण्डवाक्यस्फोटों वाचक इति सिद्धम् ॥ इति श्रीमन्मौनिकुलतिलकायमानगोवर्द्धनभहात्मजजानकीजानि
रघुनाथभट्टात्मजश्रीकृष्णकृतस्फोटचन्द्रिका संपूर्णा ।