SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ स्फोटचन्द्रिका । १५ किंच पश्य नीलोत्पलद्वन्द्वादित्यादिसाध्यवसानादिलक्षणास्थले-शरा नीलोत्पलद्वन्द्वापादानकाः नेत्ययोग्यतानिश्चये सति तद्वाक्यश्रवणानन्तरं वाक्यार्थबोधोत्तरमयोग्यतानिश्चयः पूर्व वा । नाद्यः । बाधनिश्चये सति बोधाभावात् । नान्त्यः । बोधाभावेऽन्वयानुपपत्तेरभावात् । नहि स्वरूपसती अन्वयानुपपत्तिर्लक्षणाबीजम् । किंतु ज्ञाता । न च पूर्वमयोग्यतानिश्चयसत्त्वेन तज्ज्ञानमप्यस्त्येवेति वाच्यम् । वाक्यार्थबोधजन्यान्वयानुपपत्तिज्ञानस्य पूर्वमभावात् । गङ्गा घोषाधिकरणं नेति लौकिकज्ञानसत्त्वे गङ्गायां घोष इति वाक्यागङ्गाधिकरणको घोष इति बोधोत्तरमन्वयानुपपत्तिर्हि अनुभवसिद्धा । न च तस्याः पूर्व ज्ञानं संभवति । न च भ्रमात्मको बोध इति तार्किकोक्तं युक्तिमत् । अयोग्यतानिश्चयस्य प्रतिबन्धकत्वं योग्यताज्ञानस्य कारणत्वं प्रकल्पनीयम् । भ्रमात्मको बोधश्च कल्पनीय इति महद्गौरवम् । स्फोटवादिनां त्रितयमपि न कल्प्यमिति लाघवम् । वाक्याथेबोधजन्यप्रवृत्तावेव तत्स्वीकारात् । किंच नाहं परमेश्वर इति बाधनिश्चये सति तत्त्वमसीति वाक्याबोधाभावे भ्रमात्मकबोधेवा न प्रमात्मकं ज्ञानं संभवति भ्रमात्मकबोधस्य प्रमास्मकबोधजननायोग्यत्वात् । एवं दशमस्त्वमसीत्यत्रापि । ननु अनेकवर्णातिरिक्तोऽनेकथ्वनिव्यङ्गयोऽखण्डवाक्यस्फोटः कः पदार्थ इति चेत्, शृणु । यथा तार्किकैः पूर्वोक्तमद्रीत्या गत्यन्तरसंभवेऽपि चित्ररूपमतिरिक्तं स्वीक्रियते, यथा शाब्दिकै रेफद्वयाज्भागविशिष्ट एको वर्णः ऋति ऋवा लति लवेत्यत्र वार्तिके स्वीक्रियते, यथा वा सिद्धमेतत् सस्थानत्वादैचोश्चोत्तरभूयस्त्वादिति वार्तिकेऽनकाचामेकवर्णात्मकत्वमुक्तं तथा मयापि अनेकध्वनिव्यङ्ग्यः वाक्यात्मक एको वर्ण इति स्वीक्रियते । स च शब्दब्रह्मरूपः । तत्र मतत्रयं - शब्दब्रह्मेति शब्दार्थः शब्दमित्यपरे जगुः ।। चैतन्यं सर्वभूतानां शब्दब्रह्मेति मे मतिः ।। इति । शब्दब्रह्मेति निर्वचनेनापि तस्य वर्णत्वं सिद्धम् । अनुमानादपि तथाहि । अखण्डवाक्यस्फोट: एकवर्णरूपः श्रावणत्वात् , ध्वनिव्यङ्गयत्वाद्वा । यनैवं तन्नैवं, यथा पृथिव्यादि । अन्वयदृष्टान्तस्तु मतान्तरसिद्धवर्णादिः । वस्तुतस्तु अन्वयव्यतिरेक्यनुमानं व्यर्थम् , उपनीतभानेनैव गतार्थत्वात्। तथाहि । यथा चन्दनखण्डस्य लौकिकप्रत्यक्षं सौरभस्यालौकिकं तथा धूमस्य लौकिकं वह्नरलौकिकमिति अस्मिन्पक्षे उपनीतभानेनोत विवेकः ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy