________________
१४
मौनिश्रीकृष्णविरचिता व्याप्तम् । न वाह्लादे वैजात्यम् । किं ततः । लोकोत्तराहादजनकज्ञानविषयत्वस्योभयत्र तुल्यत्वात् । ब्रह्मण आनन्दत्वेन सर्वैर्वर्णितत्वाच्च ।
किंच रमणीयपदस्य रमणीयार्थप्रतिपादकत्वमस्ति न वा । नाद्यः । रमणीयशब्दस्यापि रमणीयार्थप्रतिपादकशब्दत्वेन काव्यत्वापत्तेः । इदं च भाष्ये 'अपशब्दार्थकः शब्दोऽपशब्द इति चेन्न । अपशब्दस्यापि अपशब्दत्वापत्तेः' इत्यनेन ध्वनितम् । नान्त्यः । रमणीयार्थप्रतिपादकत्वाभावे लक्षणत्वानुपपत्तेः । तस्मात्प्रकाशोक्तमेव लक्षणं सम्यक् । __एवं वह्निना सिञ्चतीति वाक्यस्फोट एव । ननु वाक्यार्थबोधेऽयोग्यतानिश्चयस्य प्रतिबन्धकत्वं तार्किकादिसिद्धं प्रकृते च वह्निः सेककरणं नेति विषयबाधरूपायोग्यतानिश्चयरूपबाधकसत्त्वाद्विषयाबाधरूपयोग्यताज्ञानासत्त्वात्कथमेतस्य वाक्यस्फोटत्वमिति चेत्सत्यम् । तात्पर्यविषयाबाधो हि योग्यता । तदभावोऽयोग्यता । प्रकृते चात्युष्णजलेन सिञ्चतीति तात्पयेविषयः । यथा
अस्य क्षोणिपतेः परार्द्धपरया लक्षीकृता संख्यया
प्रज्ञाचक्षुरवेक्षमाणबधिरप्रख्याः किलाकीर्तयः । गीयन्ते स्वरमष्टमं कलायता जातेन वन्ध्योदरा
न्मूकानां प्रकरण कूर्मरमणीदुग्धोदधे रोधसि ॥१॥ गगनं गगनाकारं सागराः सागरोपमाः ।। रामरावणयोयुद्धं रामरावणयोरिव ॥२॥ कैलासस्य प्रथमशिखरे वेणुसंमूर्च्छनाभिः
श्रुत्वा कीर्ति विबुधरमणीगीयमानां यदीयाम् । स्रस्तापाङ्गाः सरसबिसिनीकाण्डसंजातशङ्का
दिङ्मातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति ॥३॥
पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः । इत्याद्यालङ्कारिकवाक्यषु, गङ्गायां घोष इत्यादौ तत्त्वमसीत्यादौ च तात्पर्यविषयाबाधो योग्यत्वमिति सर्वसिद्धान्तः । तथात्रापि ।
यद्वा शाब्दबोधेऽयोग्यतानिश्चयस्य न प्रतिबन्धकत्वं तत्सत्त्वेऽपि त्वं बृहस्पतिरिति स्तावकवाक्यात्संतोषोपलब्धेः । नाहं रण्डापुत्र इति बाधनिश्चये सत्यपि त्वं रण्डापुत्र इति वाक्यात्क्रोधोपलब्धेश्च । शाब्दबोधाभावे एतदनुपपत्तेः।