________________
स्फोटचन्द्रिका। भेदान्वये बाधकाभावः । यथा घटोऽनित्य इत्यत्र घटपदवाच्यैकदेशघटत्वस्यायोग्यत्वेऽपि योग्यघटव्यक्त्या सहानित्यत्वान्वयः। यद्वा विशेष्य एव शक्तिः विशेषणं तूपलक्षणम् । अस्मिन्पक्षे न कोऽपि दोषः ।
यद्वा यथा नानार्थस्थले संयोगादिनाभिधानियमनं तथाभेदान्वयानुरोधाद्विशेष्ये एवाभिधानियमनम् । अस्तु वा लक्षणा सा च जहल्लक्षणा । तया च विशेषणांशत्यागमात्रं न तु विशेष्येऽपि तस्या उपयोगः। शक्त्यैव तदुपस्थितिसंभवात् एवं सोयं देवदत्त इत्यत्रापि । तथा च जहदजहल्लक्षणोदाहरणमसंगतमिति दिक् । ..
एवमेको वृक्षः पञ्च नौका भवन्तीति वाक्ये सखण्डाखण्डत्वे पूर्ववदेव बोथ्ये ।
- अत्र तार्किकाः
गृह्णाति वाचकः सङ्ख्यां प्रकृतेर्विकृतेर्नहि। इति वचनात्प्रकृत्यर्थवृक्षगतमेकवचनमेव भूधातूत्तरं भवतीत्याहुः । तदयुक्तम् । गृह्णातीत्यस्य च्च्यन्तविषयत्वात्। यथा संघीभवन्ति ब्राह्मणाः त्वद्भवाम्यहं मद्भवसि त्वमित्यादौ वचनपुरुषयोः प्रकृतिगतयोरेव दर्शनात् । ननु संकोचे किं मानम् । सुवर्णपिण्डः खदिराङ्गारसदृशे कुण्डले भवत इति भाष्यप्रयोग एव । उद्देश्यविधेयभावस्थले तु उद्देश्यगता सड़ख्याऽऽख्यातप्रत्यये 'शास्त्राणि चेप्रमाणं स्युः' इत्यादिषु ।
पुनरपि वाक्यं द्विधा । काव्यात्मकमकाव्यात्मकं च । द्वितीयं तुक्तम् । आद्यंतु
तदोषौ शब्दार्थों सगुणावनलंकृती पुनः कापि। इत्यनेन लक्षितम् । अत्र यावदोषाभावो वक्तुमशक्यः । असंभवात् । यत्किंचिदोषाभावे अदोषपदवैयर्थ्यम् । तस्मान्नोऽल्पत्वमर्थः । अनुदरा कन्येतिवत् । अल्पत्वं च स्फुटप्रतीयमानदोषराहित्यम् । __ इदं काव्यलक्षणं रसगङ्गाधरे दूषितम् । शब्दार्थयोर्व्यासज्यवृत्तिकाव्यत्वे काव्यं श्रुतमर्थो न ज्ञात व्यवहारासंभवात् । तदसमञ्जसम् । पटैकदेशे दग्धेऽपि पटो दग्ध इतिवदेकदेशेऽपि प्रयोगसंभवात् । समुदायवृत्ताः शब्दाः क्वचिदेकदेशेऽपि वर्तन्ते इति भाष्यात् । तल्लक्षणमेव तु न समजसम् । तथाहि। रमणीयार्थप्रतिपादकशब्दः काव्यम् । रमणीयत्वं च लोकोत्तराह्लादजनकज्ञानविषयत्वमिति तल्लक्षणम् । इदंच तत्त्वमसीत्यादावति