________________
मौनिश्रीकृष्णविरचिता
त्वनियमात् । अन्यथा घटपदात्समवायेनोपस्थिताकाशस्यापि शाब्दबोधविषयत्वापत्तेः । न द्वितीयः । विभक्त्यर्थमद्वारीकृत्य नामार्थस्य धात्वर्थेन समं भेदसंबन्धेनान्वयोऽव्युत्पन्नः । अन्यथौदनः पचतीत्यापत्तेः । न च तत्र वाक्यार्थस्य कर्मत्वं न नामार्थस्येति वाच्यम् । रमणीय ओदनः पचतीत्यस्याप्यापत्तेः। पश्य लक्ष्मण पम्पायामित्यादौ तमिति पदाध्याहारेण वाक्यभेद एव । एवं च वाक्यार्थस्य कर्मत्वमित्यविचारिताभिधानम् ।। ___ एवं नीलो घटो भवतीति वाक्ये नीलकर्तृकभवनाश्रयो घट इति व्युत्पत्तिवादोक्तमपि न युक्तिमत् । नामार्थस्येत्यादिव्युत्पत्तिबाधे मानाभावात् । नीलो घटो भवनाश्रय इति बोधसंभवाच । 'सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे' इति विशेषणे नीले एव भवनस्यान्वयो भविष्यतीति दिक् ।
एवं तत्त्वमसि, सोऽयं देवदत्त इत्यादौ सखण्डाखण्डत्वं पूर्ववदेव बोध्यम् । तत्त्वमसीत्यत्र तत्पदवाच्यसर्वज्ञत्वादिविशिष्टचैतन्यस्य त्वंपदवाच्येनान्तःकरणविशिष्टचैतन्येनैक्यासंभवादैक्यसिद्धयर्थं स्वरूपे जहदजहल्लक्षणेति सांप्रदायिकाः । । नन्वनयो रैक्ये किं मानम् । न च नामार्थेति व्युत्पत्तिः । तस्याः किं नामार्थयोरेवाभेदान्वय उत नामार्थयोरभेद एवेति । नाद्यः । स्तोकं पचति वैश्वदेवी आमिक्षेत्यादी व्यभिचारात् । नान्त्यः । घटपटौ इत्यादौ व्यभिचारात् । तस्मात्संभवति सामानाधिकरण्ये वैयधिकरण्यमन्याय्यमिति लाघवमूलको हि सः।
सत्यम् 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इति भेदनिन्दापूर्वकाभेदप्रतिपादकश्रुतिर्मानम् । न च तत्रापि यः नाना इव पश्यति स मृत्योर्मृत्युमाप्नोति यस्तु वस्तुतः नानात्वं पश्यति स नेतीतीवशब्दात्प्रतीयमानार्थेन भेदस्यैव प्रतीतेः । किंच राजपुरुष इत्यत्रेव तस्य त्वमिति षष्ठीसमासेनापि भेदस्यैव प्रतीतेरिति वाच्यम् । छान्दोग्यपि 'सदेव सौम्येदमग्र आसीत् ' इत्यारभ्य तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इत्युपसंहारेणोपक्रमोपसंहारयोरेकरूपेण वेदतात्पर्यनिर्णायकेनैक्यस्य निर्णीतत्वात् । 'ब्रह्म तं परादाद्योन्यत्रात्मनो ब्रह्म वेद ' इति श्रुत्यापि ऐक्यावधारणात् । अस्मिन्पक्षे लाक्षणिकवाक्यस्फोटः ।
वस्तुतस्तु अयं वाचकवाक्यस्फोट एव । तथाहि । विशिष्टशक्त्युपस्थापितयोस्तत्त्वंपदार्थयोरभेदान्वयानुपपत्तावपि विशेष्ययोः शक्त्युपस्थापितयोर