SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ स्फोटचन्द्रिका । इत्ययमखण्डातिरिक्तवाक्यस्फोटप्रकाशः । यथा वणे अवयवा न सन्ति तथेत्यर्थः । पश्य मृगो धावति, पचति भवतीत्यादावपि अखण्डसखण्डातिरिक्तानतिरिक्तत्वं पूर्ववदेव बोद्धव्यम् । मृगकर्तृकवर्तमानधावनक्रियायाः दृशिक्रियायां कर्मतासंबन्धेनान्वयः । देवदत्तकर्तृकपचिक्रियाया वर्तमानभवनक्रियायामन्वयः । तदुक्तम् सुबन्तं हि यथानकं तिङन्तस्य विशेषणम् । तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम् ॥ इति । यत्तु धावनानुकूलकृतिमान् मृग इति प्रथमान्तविशेष्यकशाब्दबोध इतिपक्षे मृगस्य दृशिधात्वर्थनिरूपितकर्मत्वाहितीयापत्तिः । तमित्यथ्याहारे च वाक्यभेदापत्तिरित्याशङ्कय पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः । इत्यादाविव वाक्यार्थस्य कर्मत्वान्न वाक्यभेद इति कैश्चित्समाहितं तन्मुधैव । अन्तरङ्गधावनक्रियानिरूपितत्वान्मृगस्य कर्तृत्वात्तस्य चाख्यातेनोक्तत्वात्प्रथमोत्पत्तौ बहिर्भूतदृशिधात्वर्थनिरूपितकर्मत्वेऽपि अन्तरङ्गत्वाज्जातसंस्कारबाधे मानाभावेनैव, शक्यं च श्वमासादिभिः क्षुदुपहन्तुमितिकदुपपत्तेः । एवं चात्र प्रथमान्तविशेष्यकपक्षेऽपि शाब्दिकदूषणाभावेऽपि एकदेवदत्तकर्तृकपचिक्रियाकर्तृकं भवनमित्यर्थे पचतिभवतीत्येकवाक्यतानापत्तेः । न च पाकानुकूलकृतिमान्देवदत्तो भवतीत्यर्थे निष्पन्ने 'सविशेषणे विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे' इति न्यायेन क्रियाया एव कर्तृत्वं भविष्यति । एकवाक्यतायां फलाभावाच्च । न च 'समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः' इति निघातः फलम्। 'तिङतिङः' इति अतिमहणेन तदभावात् । सत्यम् । त्वत्संबन्धिनी देवदत्तकर्तृका पचिक्रिया भवतीत्यर्थे देवदत्तः पचति ते भवतीति प्रयोगे समानवाक्यत्वाभावेनादेशानापत्तेः । अनेकदेवदत्तकर्तृकैका पचिक्रियेत्यर्थे देवदत्ताः पचन्ति भवतीति प्रयोगोऽपि न स्यात् । अनेककर्तृत्वेन भवतीत्यत्र बहुवचनापत्तेः । पश्य मृगो धावतीत्यत्र निघातरूपप्रयोजनसत्त्वाच्च । किंचात्र वाक्यार्थस्य कर्मत्वमिति तार्किकोक्तं न युक्तिमत् । तथाहि । वाक्यार्थोऽतिरिक्तोऽनतिरिक्तो वा । नाद्यः । तस्य वृत्त्यनुपस्थापितत्वेन दृशिक्रियायां कर्मतयान्वयानुपपत्तेः । वृत्त्युपस्थापितस्यैव शाब्दबोधविषय
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy