SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ १० मौनिश्रीकृष्णविरचिता त्वम् । एवं चानयोरप्येकवाक्यत्वापत्तिः । न चेष्टापत्तिः । अथै क्यादित्यस्य भवदुक्तप्रत्युदाहरणविरोधात् । किं चेयं पदैकवाक्यता उत वाक्यैकवाक्यता उत ग्रन्थैकवाक्यता । नाद्यः । क्रियाकारकाणामेव तत्संभवात् । तयोरेंव परस्परमाकाङ्क्षासंभवात् । उभयाकाङ्क्षायामेव तत्संभवेनान्यतराकाङ्क्षायां तदसंभवाच । न द्वितीयः । इतरनिरपेक्षतया सिद्धेनैकवाक्येन सापेक्षतरवाक्यस्यान्वये हि सा । प्रकृते च वाक्यसंदर्भरूपग्रन्थयोरेव सा न तु वाक्ययोः । अनुमानस्थितवाक्यानां परामर्शजन्यं ज्ञानमनुमितिरित्यादीनां प्रत्यक्षवाक्याकाङ्खाभावात् । आसत्त्यभावाच । किं च वाक्यैकवाक्यता हि प्रकरणम् । अन्यतराकाङ्क्षाप्रकरणमिति तल्लक्षणात् । तस्याप्येकवाक्यत्वस्वीकारे वाक्याप्रकरणस्य दुर्बलत्वप्रतिपादकश्रुतिलिङ्गवाक्यप्रकरणेत्यादिबलाबलाधिकरणविरोधः । न तृतीयः । प्रत्यक्षानुमानयोराकाडा आर्थी न तु शाब्दी । तस्मादत्र सूत्रलिखनं यत्किचिदर्थकल्पनमनुचितम् । शिरोमणिग्रन्थस्तु यद्यत्सङ्गतिमत्तत्तदेकवाक्यमित्यनेनैव सिद्धत्वादिति दिक् । __ प्रकृतमनुसरामः । व्यवहारेण वाक्ये शक्तिग्रहाद्वाक्यस्यैव वाचकत्वाद्वाक्यस्फोटः । न च पूर्व गृहीतापि वाक्ये शक्तिरावापोद्वापाभ्यां त्यक्त्वा पदे गृह्यत इति वाच्यम् , एवं सति पदार्थज्ञानं प्रति वाक्यार्थज्ञानस्य हेतुतापत्तौ वाक्यार्थज्ञानं प्रति पदार्थज्ञानस्य हेतुत्वमिति सर्वसिद्धान्तभङ्गापत्तेः । वाक्यस्फोटो द्विधा सखण्डोऽखण्डश्च । अखण्डो द्विधा । वर्णातिरिक्तोऽनतिरिक्तश्च । यदा वर्णा न स्वीक्रियन्ते गौरवात्, लाघवात् ध्वनिभिरेवाखण्डो वाक्यस्फोटो व्यज्यते इति मतं, तदातिरिक्तः । अस्मिन्पक्षे वर्णाभावेन यावद्वर्णव्यङ्गय इत्यादिदूषणाभासा गर्भस्रावेणैव पराहताः । यदा तु ध्वनिभिर्वर्णा व्यज्यन्त इति मतं तदा घटमानयेति सखण्डवाक्यस्फोटः । क्रियाकारकयोविभागस्य कर्तुं शक्यत्वात् । हरेऽव विष्णोऽवेत्यादौ एकादेशे कृते प्रातिपदिकाख्यातयोविभागाशक्यतयानतिरिक्तः वाक्यस्फोटः । क्रियाकारकज्ञानशून्यस्यावैयाकरणस्य घटमानयेत्ययमपि अनतिरिक्ताखण्डवाक्यस्फोट एव । पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ।।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy