SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ स्फोटचन्द्रिका । जनकः काल इत्यस्य पृथिव्यादिसप्तपदार्थानामपीश्वराभेदेन विशिष्योभयोरेव तदभेदप्रतिपादनस्य चायुक्तत्वात् । एवं खण्डकालोऽप्ययुक्तः । सूर्यगतिविशेषरूपोपाधिभेदेन हि खण्डकालः । एवंच सूर्यगतिविशेषस्यैवास्तु खण्डकालत्वं किं तदतिरेकेण । तथा च खण्डकालस्य क्रियात्वम् । एवं पीलुपाकवादिभिः परमाणौ पाकं स्वीकृत्य श्यामघटनाशः रक्तघटोत्पत्तिः स्वीकृता, तत्र चक्रदण्डादिनिमित्तकारणाभावात्कथमुत्पत्तिः । निमित्तकारणं विनापि तत्स्वीकारे दण्डचक्रादीनां निमित्तकारणतैवोच्छिद्येत । एवंविधानेकानुभवानारूढगुरुभूततर्काश्रयणं लाघवमूलातिरिक्ताखण्डस्फोटखण्डनं दूषणाभासैरनुचितमिति दिक् ।। . वाक्यार्थज्ञानं प्रति पदार्थज्ञानस्य कारणत्वात्पदस्फोटं निरूप्य वाक्यस्फोटो निरूप्यते । स चाखण्डसखण्डभेदेन द्विधा । तत्राखण्डः पदातिरिक्तोऽखण्डपदव्यङ्गयो लाघवात्स्वीक्रियते । तच्चाखण्डपदस्फोटे निरूपितम् । अन्यच्चाकाङ्कायोग्यतासत्तीनां कारणता न वाच्येति महल्लाघवम् । सखण्डस्तु प्रसिद्ध एव । - यद्वा हरेऽवेत्यादौ एकादेशे कृते पदविभागो दुर्वारस्तत्राखण्डवाक्यस्फोटोऽन्यत्र सखण्ड इति विवेकः । एवंच दूषणानां गर्भस्राव एव । तत्र वाक्यं नामैकतिङन्तार्थमुख्यविशेष्यकम् । यथा पचति भवतीति । तत्रापि पचतीत्यस्य विशेष्यत्वेऽपि मुख्यविशेष्यत्वाभावान्नाव्याप्तिः । तार्किकैस्तु पूर्वापरग्रन्थैकवाक्यताप्रतिपत्तये 'अर्थक्यादेकं वाक्यं साकाङ्गं चेद्विभागे स्यात्' इति मीमांसासूत्रमुपन्यस्य विशेष्यभूतभावनैकत्वादिति अर्थैकत्वादित्यस्य तेषामर्थं त्यक्त्वा तात्पर्यविषयैक्यमिति स्वयं तदर्थ व्याख्याय प्रत्यक्षानुमानयोरेकवाक्यत्वमुक्तम् । स्वातन्त्र्ये(ण?) यद्यत्सङ्गतिमत्तत्तदेकं ( तत्तेन सहैकं ? )वाक्यमिति वक्तव्यं न तु यत्किंचिदर्थकल्पनमुचितं दोषदुष्टं च । तथाहि । पठनतात्पर्ये यथैव देवदत्तः पठति तव पुत्रस्तथैव पठतीत्यत्राप्येकवाक्यत्वापत्तिः । न चेष्टापत्तिः । समानवाक्यत्वात्तेआदेशापत्तेः । तथा स्योनं ते सदनं करोमि घृतस्य धारया सुषेवं कल्पयामीति सदनप्रतिपादको मन्त्रः प्रत्यक्षग्रन्थवत् । तस्मिन्सीदामृतेप्रतितिष्ठ व्रीहीणां मेधसुमनस्यमान इति सादनप्रतिपादको मन्त्रः अनुमानग्रन्थवत् । प्रमाणनिरूपणवद्यागाङ्गनिरूपणं तात्पर्यविषयः । एवमनुमानस्य प्रत्यक्षापेक्षत्वेऽपि प्रत्यक्षस्य तदनपेक्षत्ववत् सादनप्रतिपादकमत्रस्य सदनप्रतिपादकापेक्षत्वेऽपि सदनप्रतिपादकस्य न तदपेक्ष
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy