SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ मौनिश्रीकृष्णविरचिता ब्रह्मेति मे मतिः' इति शब्दब्रह्मरूपोऽतिरिक्तः स्फोटस्तार्किकादिदूषणाभासनिरसनपूर्वको व्याख्यातः । प्रकारान्तरेणाप्युच्यते । अखण्डपदस्फोटो नाऽतिरिक्तः । यत्र तार्किकादिभियौगिकं योगरूढं च पदमित्युच्यते पाचकः पङ्कजमित्यादि तदेवास्माभिः सखण्डपदस्फोटत्वेन व्यवह्रियते । खण्डशक्त्यनुसंधानपूर्वकं कोशादिना समुदायशक्तिग्रहात् । यस्य तु व्याकरणज्ञानशून्यस्य केवलव्यवहारेण समुदायशक्तिग्रहस्तस्य स एवाखण्डपदस्फोटः । यत्तु रूढं पदं मणिनूपुरादि वः न इत्यादि तत्सर्वेषामपि अखण्डपदस्फोटत्वेनाभिमतम् । तत्र सर्वेषामपि अवयवार्थज्ञानाभावविशिष्टव्यवहारेण समुदाये शक्तिग्रहात् । एवंच रूढयौगिकपदयोः सखण्डाखण्डस्फोटयोश्च पर्यायत्वे नाममात्रे विवाद इति दिक् । एवंच तार्किकादीनां दूषणाभासा गर्भस्रावेणैव पराहता इति दिक् । नहि तार्किकादितर्का एव सत्ता इति नियमः । तत्रापि बहुशोऽनुभवाविषयासत्तर्कदर्शनात् । तथाहि । विशिष्टस्य कार्यत्वकारणत्वेनैव सिद्धौ निर्गुणघटोत्पत्तिरयुक्तेति पूर्वमुक्तम् । तथा रूपस्य व्याप्यवृत्तित्वनियमाद्घटस्य प्रत्यक्षान्यथानुपपत्त्या स्वीक्रियमाणातिरिक्तं चित्रं रूपमिति कल्पनाप्ययुक्तैव । तादृशनियमे प्रमाणाभावात् । अस्तु वा नियमः । तथापि तत्तद्व्यवाच्छिन्नतत्तदवयवसंनिकर्षसहितचरमरूपावच्छिन्नचरमावयवसन्निकर्षेणैव घटसाक्षात्कारसिद्धौ अतिरिक्तचित्ररूपस्वीकारे गौरवात् । एवं विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात्तस्य चायं घट इत्यादावसंभवाद् घटघटत्वयोः संबन्धानवगाहि निर्विकल्पकज्ञानकल्पनाप्ययोग्यत्वादयुक्तैव । नित्यसंबन्धातिरिक्तसंयोगसंबन्धादावेव तत्कल्पना दण्डीपुरुष इत्यादौ, न तु अयं घट इत्यादौ । तत्र विशिष्टज्ञानस्यैव जायमानत्वात् । एवंच निर्विकल्पकज्ञानं न स्वीकार्यमिति महल्लाघवम् । एवमखण्डसखण्डभेदेन कालद्वैविध्यकल्पनमप्ययुक्तमेव । अखण्डस्य व्यवहारानाधायकत्वात् । न च 'जन्यानां जनकः कालो जगतामाश्रयो मतः' इति जगदाधारत्वेन जनकत्वेन च तत्स्वीकारः । ईश्वरस्यैव तत्प्रसिद्धत्वात् । न च पदार्थखण्डने दिक्कालौ नेश्वरादतिरिच्येते इत्यादिनाऽस्माभिस्तदुक्तमिति वाच्यम् । तत्र दिक्कालयोव विशिष्येश्वराभेद उक्तः । स च सर्व खल्विदं ब्रह्मेति श्रुतिविरुद्धः । तथा यतो वा इमानि भूतानि जायन्ते, तस्मिन्सर्व प्रतिष्ठितमित्यादिश्रुतिभिर्जगत्कर्तृत्वं जगदाधारकत्वं चेश्वरस्यैव न तु कालस्य । तेन जन्यानां
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy