________________
स्फोटचन्द्रिका। ण्डपदस्फोटः पचति राम इत्यादिसुबन्ततिङन्तरूपः, शक्तं पदमिति मते स एव वाक्यस्फोटस्तार्किकाणाम् ।
अथाखण्डपदस्फोटो निरूप्यते । स च सर्वैः पदस्थितवर्णैर्व्यज्यते । स चार्थप्रत्यायक इति शाब्दिकसिद्धान्तः । न च प्रतीतस्य प्रत्यायकत्वं नास्ति अन्यथा शब्दं वेत्तीत्यत्रार्थ वेत्तीति प्रत्ययापत्तेरिति अणुदित्सूत्रस्थभाष्यविरोधः । तस्य सामान्यतः प्रतीतस्य प्रत्यायकत्वं नास्तीति नार्थः किंतु शब्दसंज्ञया प्रतीतस्य शब्दस्येति । प्रकरणानुरोधेन तस्य संकोचात्। एवं च रहसि पुस्तकमीक्षमाणस्यार्थप्रत्ययानापत्तिमाशङ्कय तत्रापि सूक्ष्मोच्चारणभस्त्येवेति नव्योक्तमपास्तम् । अनुभवविरोधाच्च । __ यत्त्वत्र तार्किकवेदान्तिनः । यावद्वर्णव्यङ्गयो वा यत्किंचिद्वर्णव्यङ्यो वा चरमवर्णव्यङ्गयो वा सः । न तावदाद्यः । आशुविनाशिनां मेलनासंभवात् । न द्वितीयः । पशब्देनैव व्यञ्जिते स्फोटे टवर्णवैयर्थ्यम् । न तृतीयः। पूर्वपूर्ववर्णानुभजन्यसंस्कारसहितचरमवर्णेनैवार्थप्रतीतिसिद्धौ किं स्फोटेनेति । तन्न।
वर्णानामाशुविनाशित्वे मानाभावात् । न चोत्पन्नो गकारः नष्टो गकार इति प्रतीतिर्मानम् । तस्माच्चाकाशः संभूत इतिवदाविर्भावतिरोभावेनाप्युपपत्तेः । अनन्तप्रागभावध्वंसकल्पने गौरवाच्च । अनित्यत्वेऽपि वर्णानुभवजन्यसंस्कारजन्यस्मृतौ मेलनसंभवात् ।
द्वितीयमपि न द्वितीयादिवर्णवैयर्थ्यम् । पशब्दोच्चारणे किं पटस्फोट उत पद्मस्फोट उत पयःस्फोट इति संदेहनिवर्तकत्वेन सार्थक्यात् ।
तृतीये यथा पटपदशक्यः विजातीयतन्तुसंयोगविशिष्टचरमसंयोगस्यैव पटकार्यकारित्वेऽपि अतिरिक्तोऽवयवी स्वीक्रियते तथा मयापि स्वीक्रियते । न च तथानुभवादतिरिक्तः पट इत्युच्यते । पदस्फोटेऽपि तुल्यत्वात् । गौरवाच । __ स्फोटे तु लाघवं कथमिति चेच्छृणु । ध्वनिभिरेव स्फोटो व्यज्यते । एवंचानन्तवर्णतत्प्रागभावध्वंसकल्पना नदी दीन सरो रस जरा राजेत्यादौ भिन्नार्थप्रतीत्यर्थमानुपूर्व्याः पूर्ववर्णानुभवजन्यसंस्कारसहितचरमवर्णस्य कारणता च न वाच्येत्यतिलाघवम् । त्वया तु तद्वाच्यमिति गौरवम् । एतावत्प्रघट्टकेन वर्णातिरिक्तः वर्णव्यङ्गयः 'चैतन्ये सर्वभूतानां शब्द
१मचं वेत्ति।