________________
मौनिश्रीकृष्णविरचिता केचित्तु श्रोत्रेन्द्रियवद्रसनेन्द्रियघ्राणेन्द्रिययोरपि गुणमात्रसाक्षात्कारजनकत्वमिति वदन्ति । तदयुक्तमित्यपरे । तथाहि । शब्दस्याकाशगुणत्वात्समवायेन साक्षात्संबन्धसत्त्वेन केवलप्रत्यक्षसंभवेऽपि रसगन्धयोस्तु संयुक्तसमवायः संनिकर्षः स च द्रव्यसंबन्धे घटत इति परम्परासंबन्धः । तत्र द्रव्यसाक्षात्कारसंन्निकर्षसत्त्वेन द्रव्यं विना केवलगुणस्यासत्त्वेन च केवलगुणसाक्षात्कारासंभवः । तस्माद्व्यविशिष्टगुणसाक्षात्कारजनकत्वं तयोः, न तु गुणविशिष्टद्रव्यसाक्षात्कारजनकत्वम् । अनुभवेन तथैव शक्त्युन्नयनात् । चक्षुरिन्द्रियत्वगिन्द्रिययोस्तु गुणविशिष्टद्रव्यं द्रव्यविशिष्टो वा गुण इत्युभयविधसाक्षात्कारजनकत्वम् । विस्तरस्तु मत्कृतशब्दार्थतर्कामृते द्रष्टव्यः । गौरवभयान्नेह तन्यत इति दिक् ।
प्रकृतमनुसरामः । असाधुशब्दस्य वाचकत्वेऽपि व्याकरणप्रतिपाद्यत्वाभावात्स्फोटत्वाभावः । तदन्तर्गतवर्णानां तु एकाक्षरकोशावधृतशक्तिकानामर्थान्तरप्रकाशकत्वे पदस्फोट इति पदस्फोटे विवेचयिष्यते । अनुकरणशब्दानां तु अनुकार्यानुकरणयोर्भेदविवक्षयाऽनुकार्यरूपार्थप्रतिपादकत्वात् स्फोटत्वम् । ननु साध्वनुकरणस्य साधुत्वेन स्फोटत्वेऽप्यसाध्वनुकरणस्यासाधुत्वात्कथं स्फोटव्यवहार इति चेन्न । असाध्वनुकरणस्यापि साधुत्वस्वीकारात् । दैत्यैहेंऽरय इति प्रयोक्तव्ये हेऽलय इति प्रयुक्तं, तदनुकरणं हेलयो हेलय इति कुर्वन्तो ने पराबभूवुरिति वाक्येऽपि न तस्यासाधुत्वम् । तथा यद्वा नः तद्वा नः भवतु इत्यर्थे यर्वाणस्तर्वाणः भवतु इति प्रयुक्तं तदनुकरणं कुर्वन्तो यर्वाणस्तर्वाणो नाम ऋषयो बभूवुरिति वाक्येऽपि तस्यासाधुत्वं न कस्यापि संमतम् । तस्मादसाधोरनुकरणस्य साधुत्वं सर्वसंमतम् । तत्र यदा तयोरभेदविवक्षा तदार्थप्रकाशकत्वाभावान्न स्फोटत्वम् । शुद्धब्रह्मज्ञानाय सर्वबहिर्भूतान्नमयकोशवदखण्डवाक्यबोधनाय वर्णस्फोट इति दिक् ।।
इति वर्णस्फोटः । अथ पदस्फोटो वर्णस्फोटापेक्षया अन्नमयकोशापेक्षयान्तरङ्गप्राणमयकोशवदन्तरङ्गो निरूप्यते । अन्तरङ्गत्वं तु साक्षाद्वाक्यघटकत्वेन । वर्णस्य बहिरङ्गत्वं पदनिष्पत्तिद्वारा तद्बटकत्वम् । पदस्फोटो द्विधा सखण्डोऽखण्डश्च । व्यवहारादिना पदे एव शक्तिमहात् । तत्र योऽस्माकं सख
१ कुर्वन्तः पराबभूवुरिति वाक्येऽपि तस्य साधुत्वमिति पाठः ।