SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ स्फोटचन्द्रिका । वस्तुत एकवृत्त्यैव निर्वाहे अनेकवृत्तिकल्पनमन्याय्यमित्येव तदर्थः । अर्थपदस्य वृत्तिपरत्वात् । अन्यायश्चेत्यस्य लाघवमूलकत्वात् । __न चानन्यलभ्यः शब्दार्थ इति वाच्यम् । तस्य लक्षणया लभ्ये शक्तिकल्पनमन्याय्यमिति नार्थः, किंतु संसर्गमर्यादया सिद्धे शक्तिकल्पनमयुक्तमिति तदर्थात् । एवं च शाब्दिकानां शब्दवद्वह्नौ अतिरिक्तशक्तिस्वीकारः । तार्किकाणां तु शब्दे शक्तिस्वीकारः वह्नौ तु नेत्यर्धजरतीयस्वीकारोऽनुचितः । न चोत्तेजकाभावविशिष्टमण्यभावनोपपत्तौ तत्स्वीकारो व्यर्थ इति वाच्यम् । गुरुभूतविशिष्टस्य कारणताच्छेदकत्वस्वीकारापेक्षया लघुभूतस्वीकृतातिरिक्तशक्तिसंबन्धस्यैवोचितत्वात्। किंच शाब्दिकमते भेदसहिष्णुरभेदस्तादात्म्यम् । गुणत्वद्रव्यत्वादिना भेदेऽपि गुणं विना द्रव्यानुपलम्भाव्यं विना गुणानुपलम्भाच्च तयोस्तादात्म्यम् । एवं च समवायो यत्र तत्र तादात्म्यमिति व्यवहारः । तथा च तैः गुणं प्रति घटस्य पूर्ववर्तित्वासंभवेन कारणत्वाभावादन्यथानुपपत्त्या विशिष्टस्यैव कारणतावच्छेदकत्वमङ्गीकृत्य गुणविशिष्टघटं प्रति गुणविशिष्टकपालस्य कारणत्वमिति स्वीकृतम् । तार्किकैस्तु विशिष्टस्य कारणतानवच्छेदकत्वाद्विशिष्टस्य कारणत्वासंभवान्निर्गुणघटोत्पत्तिः स्वीकृता, तत्र च गुणाश्रयत्वरूपद्रव्यत्वलक्षणानाक्रान्तत्वाद्गणसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वमिति निष्कर्षः कृतः सोऽयुक्त इति मम प्रतिभाति । . तथाहि । प्रतिबन्धकोत्तेजकाभ्यां वह्नौ ज्ञातापि शक्तिरुत्तेजकाभावविशिष्टमण्यभावस्य कारणत्वं स्वीकृत्यातिरिक्ता शक्तिः खण्डिता, शब्दे च सा स्वीकृता । एवं विशिष्टस्य तत्र अवच्छेदकत्वं स्वीकृत्येह नेत्युक्त्वा खपुष्पवनिर्गुणघटोत्पत्तिः स्वीकृता । सर्वेषामनुभवानारूढत्वादेतत्सर्वमयोग्यमिति दिक् । शाब्दिकैस्तु शब्दवद्वह्नौ कर्णविवरवर्तिनभसि चातिरिक्ता शक्तिः स्वीकृता सैव श्रोत्रं शक्तिविशिष्टं नभो वा । एवं च दूरस्थभेरीशब्दस्य स्वस्थानस्थितस्यैव श्रोत्रस्य दीपवत्प्रकाशनसामर्थ्यम् । एवं च वीचीतरङ्गन्यायेन भेरीशब्दस्य श्रवणदेशागमनमिति न मनोरमम् । साक्षाद्धेरीशब्दं शृणोमीत्यनुभवापलापापत्तेः । अनेकशब्दकल्पने गौरवाच्च । न च श्रोत्रमेव तत्र गच्छतीति युक्तम् । आकाशस्य गमनासंभवात् । कर्णविवरे आकाशाभावप्रसङ्गाच्च । श्रोत्रेन्द्रियं गुणमात्रसाक्षात्कारजनकम् ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy