________________
मौनिश्रीकृष्णविरचिता
व्याकरणेनार्थविशेषे प्रकृतिप्रत्ययेन व्युत्पादित इति ज्ञातः । तादृशार्थविशेष प्रयुक्तः । तेन गोणीशब्दस्य गोण्यामेव साधुत्वं न गवि । विनिगमनाविरह इत्यपि न युक्तम् । अन्यतरपक्षपातिनी युक्तिर्हि विनिगमना सा च ज्ञानस्य पूर्वाभिव्यक्तिरूपा प्रकृतेऽस्ति । अत एवेश्वरज्ञानं शक्तिरिति वर्धमानोपाध्यायाः ।
शाब्दिकास्तु बोधजनकत्वं शक्तिः । तच्चानादिबोधजनकतावच्छेदकधर्मवत्त्वम् । तदुक्तं हरिणा
इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा ।
अनादिरथैः संबन्धः शब्दानां योग्यता तथा ॥ इति । तजनकतावच्छेदकधर्मवत्त्वरूपा योग्यता । न चागृहीतशक्तिकस्य शाब्दबोधानुदयाच्छाब्दबोधे शक्तिग्रहस्य हेतुत्वाद् बोधोत्तरं शक्तिग्रहः शक्तिमहोतरंबोध इति अन्योन्याश्रयः । व्याकरणकोशादिना शक्तिग्रहात्। अन्यथेश्वरेच्छाशक्तिरिति पक्षेऽपि शक्तिमहोतरं बोधः बोधोत्तरं शक्तिग्रह इति अन्योन्याश्रयस्य तुल्यत्वात् । __ यद्वा शब्दार्थयोरनादिसंबन्धः शक्तिः । मम तु प्रतिभाति शक्ति: सामर्थ्य यथा दीपादौ तेजसि ग्राह्यत्वग्राहकत्वसामर्थ्य वह्नयादौ दाहकत्वसामर्थ्यमिन्द्रियादौ विषयप्रकाशनं, तत्स्वरूपसदेवोपयुज्यते न तु ज्ञातम् । एवं शब्देऽपि ग्राह्यत्वग्राहकत्वसामर्थ्य स्वरूपसदेवोपयुक्तं न तु ज्ञातम् । न चागृहीतशक्तिकस्यापि बोधापत्तिः । सन्निकर्षादिवरोधाभावप्रयोजकीभूताभावप्रतियोगितात्पर्यग्रहाभावात् । ननु नानार्थेष्वेव तात्पर्य. ग्रहस्य कारणत्वमिति चेत् । सत्यम् । शाब्दिकमते सर्वेषां नानार्थत्वात् । अत एव वृद्धिरादैजिति सूत्रे भाष्येऽनेकशक्तेः शब्दस्येत्युक्तम् । अनेकेस्वनेका वा शक्तिरस्येति विग्रहः । ___ अवच्छेदकभेदे शक्तिभेद इति तार्किकादिसिद्धान्तः । लाघवाच्छक्तिरेकैवेति शाब्दिकराद्धान्त: । न चान्यायश्चानेकार्थत्वमिति वाच्यम् । भवन्मतेऽपि तुल्यत्वात् ।
एतावान् परं भेदः-त्वन्मते वृत्तिभेदेन, मन्मते तु एकया वृत्त्या । न च लक्षणोच्छेदापत्तिः । इष्टत्वात् । यथा भवद्भिः सर्वानुभवसिद्धापि व्यञ्जना लाघवान्न स्वीक्रियते । तत्र च व्यञ्जनोच्छेदापत्तेरदूषकत्ववन्मन्मतेऽपि लाघवाच्छक्त्यैव निर्वाहे लक्षणोच्छेदापत्तेरदूषकत्वात् ।
१ जानाति इच्छति यतते करोतीत्येवं क्रमेणानुभवादिति भावः ।