SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ स्फोटचन्द्रिका। यत्तु भूषणे स्फुटति अर्थों यस्मादिति स्फोट: वाचक इति यावदिति केवलयौगिकः स्फोटशब्द उक्तः । तन्न सम्यक् । साधुशब्दानामिवासाधुशब्दानामपि शक्तिसत्त्वेन वाचकत्वाविशेषात्स्फोटत्वापत्तेः । न चेष्टापत्तिः। शाब्दिकैस्तथानङ्गीकारात् । लाक्षणिकव्यजकयोरसंग्रहापत्तेश्च । न च 'शब्दोऽत्र व्यञ्जकस्त्रिधा' इति अत्रग्रहणात्काव्य एव व्यजकः, न व्याकरणे इति भ्रमितव्यम् । पदेन स्फोटोऽखण्डो व्यज्यत इति वददिस्तत्स्वीकारात् । ननु तार्किकमते ईश्वरेच्छा शक्तिः, मीमांसकमते अतिरिक्ता पदार्थान्तरं, नवीनतार्किकैरीश्वरेच्छा ज्ञानं वा कृतिति विनिगमनाविरहान्मीमांसकमतमेवाङ्गीकृतम् । उभयथापि साधुष्वेव सा नासाधुषु । अन्यथा शक्तिमत्त्वं साधुत्वम्, इति साधुत्वलक्षणाक्रान्तत्वेनासाधूनामपि साधुत्वापत्तेः । शक्तिग्राहकव्याकरणकोशादेरभावाच्चेति चेन्न । तत्र शक्त्यभावे तेभ्यो बोधानापत्तेः। न च शक्तिभ्रमात्साधुशब्दस्मरणाद्वा बोध इति तार्किकोक्तं युक्तम् । साधुशब्दस्मरणं विनापि व्युत्पन्नानामपिबोधस्यानुभवसिद्धत्वात्, गौरवाच्च । भ्रमाद्वोध इत्यपि न । रजतभ्रमाद्गृहीतायाः शुक्ते रजतव्यवहारानाधायकत्ववच्छक्तिभ्रमाज्जातस्यापि बोधस्य व्यवहारानाधायकत्वापत्तेः। सन्मात्रविषयिण्या ईश्वरेच्छायास्तत्र अभावस्य वक्तुमशक्यत्वाच्च । किंच शक्तिभ्रमः कस्य, सर्वव्यवहारकर्तुरीश्वरस्योतान्यस्य । नाद्यः । ईश्वरस्य भ्रमित्वानुपपत्तेः।नान्त्यः । सर्गादौ प्रयोज्यप्रयोजकस्वरूपसाध्वसाधुशब्दव्यवहारकीश्वरादन्यस्याभावात् । यथा पुण्यपापोभयजनिकार्थसृष्टिरीश्वरकर्तृका तथैव साध्वसाधूभयविधशब्दसृष्टिरपीश्वरकर्तृकैव । तथा च भ्रम इति अयुक्तमेव । न च तटस्थबालस्यानुमितिभ्रमः, साधुशब्देष्विवासाधुशब्देष्वपि शक्त्यनुमापकसामग्रीसत्त्वेन बाधकाभावेन च भ्रमत्वायोगात् । नन्वसाधुशब्देष्वपि शक्तिस्वीकारे शक्तिमत्त्वं साधुत्वमिति तार्किकलक्षणाक्रान्तत्वात्साधुत्वापत्तिः । तथा च न म्लेच्छितवै नापभाषितवै इति निषेधानवकाश इति चेन्न । लाक्षणिकानामसाधुतापत्तेः । न च वृत्तिमत्त्वं तत् । शक्तिलक्षणान्यतरत्वनिवेशे गौरवात् । तस्मात्पुण्यजनकतावच्छेदकजातिविशेषः साधुत्वं प्रत्यवायजनकतावच्छेदकश्चासाधुत्वम् । यद्वा व्याकरणबोध्यत्वं साधुत्वं तद्भिन्नत्वमसाधुत्वम् । तथा च 'ए कः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुम् भवति' इति
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy