________________
मौनिश्रीकृष्णविरचिता
स्थान्येव वाचको लाघवात्, न त्वादेशो गौरवादिति तार्किकोक्तमपास्तम् । विपरीतगौरवापत्तेः ।
अयं तार्किकाणां पदस्फोटत्वेनाभिमतः । शक्तं पदमिति तैः स्वीकृतत्वात्। तच मानाभावात्फलाभावात्स्वग्रन्थविरोधाच्चायुक्तमिति शाब्दिकाः ।
तथाहि । शक्तं पदं चतुर्धा-रूढं यौगिकं योगरूढं यौगिकरूढं चेति । गौः पाचकः पङ्कजमश्वकर्ण इति क्रमेणोदाहरणानि ।
तत्र पाचक इति यौगिकोदाहरणे यच्छक्तं पदं पच अक इति न तद्यौगिकं, समुदायस्तु यद्यपि यौगिकस्तथापि न शक्तः । एवं च शक्तं पदं यौगिकमित्यविचारिताभिधानम् । विशिष्टशक्त्यभावे सति व्याकरणबोधितार्थप्रकृतिप्रत्ययसमुदायरूपसुबन्ततिङन्तपदत्वं यौगिकपदत्वम् । सत्यन्तं योगरूढेऽतिव्याप्तिवारणाय । तत्र विशिष्टे शक्तिमहात् । __ एवं गौरिति रूढयुदाहरणमप्यसङ्गतम् , व्याकरणकल्पितप्रकृतिप्रत्ययार्थप्रत्ययाभावे सति तत्समुदायसुबन्तस्यार्थबोधकत्वं रूढपदत्वं; यथा मणिनूपुरादीति रूढिलक्षणानाक्रान्तत्वात् । शास्त्रकल्पितावयवार्थानुसंधानपूवकसमुदायशक्त्यार्थबोधकपदत्वं योगरूढत्वं, यथा पङ्कजादीति तदाक्रान्तत्वाद्योगरूढत्वं युक्तम् ।
यौगिकरूढ इति तार्किकोक्तो भेदोऽपि न युक्तः । सकृदुचरितः शब्दः सकृदथै प्रत्याययतीति न्यायान्मण्डपपदं गृहविशेष रूढं भिन्नं, मण्डपानकर्तरि भिन्नमिति अतिरिक्तभेदस्वीकारे मानाभावात् । __एवं रूढिलक्षणायाः कर्मणि कुशल इत्युदाहरणमप्ययुक्तम् । उक्तरीत्या कुशले रूढत्वस्य, कुशादानकर्तरि यौगिकत्वस्य संभवात् ।
द्विरेफपदं भ्रमरे रूढमेव, कोशे भ्रमरपर्यायेषूपादानात् । नहि कोशे लाक्षणिकोपादानं पर्यायेष्वस्ति । एवं च स्ववाच्यपद्वाच्यत्वसंबन्धेन द्विरफपदस्य भ्रमरे लक्षणेति तार्किकोक्तमपास्तम् । अक्रूरेऽपि उक्तसंबन्धसत्त्वेन तत्रातिव्याप्तेश्च ।
यद्वा एकाक्षरकोशावधृतशक्तिकानां सर्वेषां वर्णानामेव स्फोटत्वम्, अर्थवन्तो वर्णा इत्यनेन भाष्ये तथा प्रतिपादनात् । न चैवं धनं वनमित्यादौ (प्रतिवर्ण) प्रातिपदिकसंज्ञापत्तिः । समुदायशक्तेः स्वाश्रयशक्ततावच्छेदकानुपूर्वीभङ्गजनकार्थकार्य प्रति प्रतिबन्धकत्वात् ।
१ बोधकरवे इति पाठः।