________________
स्फोटचन्द्रिका ।
पित्रोः पादयुगं नत्वा जानकीरघुनाथयोः ।
मौनिश्रीकृष्णभट्टेन तन्यते स्फोटचन्द्रिका ॥१॥ शाब्दिकानां वाच्यलक्ष्यव्यङ्गयार्थप्रतिपादकानां वाचकलाक्षणिकव्यअकानां शब्दानां तनिष्ठजातेर्वा स्फोट इति व्यवहारः । स्फुटति अर्थों यस्मादिति व्युत्पत्त्या पङ्कजादिपदवद्योगरूढः स्फोटशब्दः । केवलयोगस्वीकारे वाच्यलक्ष्यव्यङ्गयानां चेष्टायाश्च व्यङ्गयार्थप्रतिपादकत्वेन तत्रातिध्याप्तेः । न च वाचकपर्यायः स्फोटशब्दोऽप्रसिद्धः । ' अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः' इति हरिवंशे दृष्टत्वात् ।
तथा च वर्णपदवाक्याखण्डपदाखण्डवाक्येति पञ्च व्यक्तिस्फोटाः । शक्यतावच्छेदिकाया जातेर्वाच्यत्ववच्छक्ततावच्छेदिकाया जातेर्वाचकत्वमिति मते वर्णपदवाक्यभेदेन त्रिविधो जातिस्फोटः । एवं चाष्टौ स्फोटाः ।
यथाऽऽनन्दवल्यां शुद्धब्रह्मज्ञानार्थमन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयेति पञ्चसु कोशेषु अपारमार्थिकब्रह्मत्वप्रतिपादनमुपायः, यथा वाऽरुन्धतीज्ञानार्थ स्थूलनक्षत्रे अपारमार्थिकारुन्धतीत्वबोधनम् , तथा पारमार्थिकाखण्डवाक्यबोधार्थमेते. वर्णपदवाक्याखण्डपदस्फोटा उपायाः । तदुक्तम्
उपायाः शिक्षमाणानां बालानामुपलालनाः ।
असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ इति । 'सुप्तिङन्तं पदम् ' इति ' एकतिङन्तार्थमुख्यविशेष्यकं वाक्यम् ' इति पदवाक्यलक्षणानाक्रान्तवर्णसमूहस्य वर्णस्य वा प्रकृतिप्रत्ययरूपस्य व्याकरणेन गृहीतशक्तिकस्य पच् तिप् इत्यादिकस्य वाचकत्वे वर्णस्फोटः । ते च प्रयोगसमवायिनः विसर्गतिवादयः, न तु तत्स्थानित्वेन कल्पिताः सकारलकारादयः, तेषामनियतत्वात् । तथाहि । विसर्गेण रोःस्मरणं तेन सोः। एवं णला तिपः स्मरणं तेन लकारस्य, एवं च गौरवं स्पष्टमेव । किं च . स्थान्यादेशज्ञानशून्यस्यावैयाकरणस्यादेशमात्राबोधापत्तश्च । एवं च
ते च।