SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ वाक्यदीपिका __ २५ तद्भूतलवृत्तिघटवृत्तिद्वित्वे भूतलास्तित्वाभावसामानाधिकरण्याभावान घटद्वयवति घटौ न स्त इत्यापत्तिरिति । । ननु भूतले घटो नास्तीत्यत्रानुयोगिवृत्तित्वाभावस्य प्रतियोगिन्यन्वयस्वीकारे जातौ सत्ता नास्तीत्यत्र जातिनिरूपितवृत्तित्वाश्रयत्वाभाववती सत्तेति तदन्वयबोधो वक्तव्यः । स च न संभवति । जातिनिरूपितैकार्थसमवायावच्छिन्नवृत्तित्वस्य सत्तायां सत्त्वेन तदभावबोधनासंभवाजातिसमवेतत्वस्य चाप्रसिद्धथा निषेद्भुमशक्यत्वादिति चेन्न । भूतले घटो नास्तीत्यत्र 'भूतलवृत्तिघटाभावोऽस्तित्वाश्रयः' इतिबोधस्वीकर्तृनये जातौ न सत्तेत्यत्र जातिवृत्तिसत्ताभाव इत्युपपत्तावपि जातिर्न सत्तावृत्तिरित्यत्र संबन्धसामान्यावच्छिन्नसत्तावृत्तित्वाभावस्य जातासंभवेन समवायसंबन्धावच्छिन्नसत्तावृत्तित्वस्य चाप्रसिद्धया निषेधासंभवेन तत्पूर्वपक्षस्य तुल्यत्वात् । ननु जातिर्न सत्तावृत्तिरिति वाक्यमयोग्यमेव, वृत्तिपदं वा साक्षात्संबन्धावच्छिन्नवृत्तिपरम् । तथा च तत्र सत्तानिरूपितसाक्षात्संबन्धावच्छिन्नवृत्तित्वाभावः प्रतीयते । सत्तानिरूपितसाक्षात्संबन्धावच्छिन्नवृत्तित्वं च स्वरूपसंबन्धमादाय प्रमेयत्वादी प्रसिद्धमिति नोक्तदोष इति चेन्न । जातौ सत्ता नास्तीत्यपि वाक्यमयोग्यमेवेत्यस्यासधातोः साक्षात्संबन्धावच्छिन्नवृत्तित्वे लक्षणास्वीकारेण तत्र जातिनिरूपितसाक्षात्संबन्धावच्छिन्नवृत्तित्वाश्रयत्वाभाववती सत्तेति बोध इत्यस्य वाऽनुयोगिवृत्तित्वाभावस्य प्रतियोगिन्यन्वय इति स्वीक; मयापि वक्तुं शक्यत्वादिति दिक् । क्रियाया विशेष्यत्वे 'प्रयाति पुरुषस्तस्य चरणावभिवादये' इत्यादौ तच्छन्देन पुरुषपरामर्शो न स्यादित्याशङ्कय 'पटोलपत्रं पित्तनं नाडी तस्य कफावहा ' इत्यादि प्रयोगदर्शनात्तच्छब्देन विशेषणस्यापि परामर्श इति यत्समाहितं तयुक्तम् । तत्र तच्छब्देन विशेषणस्यापि मरामर्श इति तु सत्यम् । परंतु यावत्कालं तच्छब्दस्य प्रधानपरामर्शित्वं तावत्कालं विशेषणपरामर्शित्वं नोचितमिति 'प्रयाति पुरुषः' इत्यादौ प्रथमान्तार्थमुख्यविशेष्यकबोधस्वीकारे तस्येतितच्छब्देन प्रधानीभूतस्यैव परामर्श इति तथैव स्वीकारादित्यभिप्रेत्याह-कचिद्विशेष्यस्य कचिद्विशेषणस्य पराम र्शादित्यादि । कचित्प्रयाति पुरुष इत्यादौ विशेष्यस्य । कचिद्विशेषणस्य 'पटोलपत्रं पित्तनम् ' इत्यादौ ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy