________________
१४
शेषकृष्णविरचितं विनाशितत्वान्न पदार्थप्रतिपत्तिं प्रति कारणत्वसंभवस्तथाप्यन्त्यवर्णानुभवस्य पदस्मरणादिः सर्वो व्यापार एवेति न दोषः ।
अथ वाक्यप्रक्रिया। अन्त्यवर्णानुभवस्योत्पादः, स्मरणस्य विनश्यत्ता, ततः संस्कारपदप्रतिसंधानयोरुत्पद्यमानतेत्येकः कालः १॥ अथ तयोरुत्पादः, स एव पदप्रतिसंधानात्मा समयसंस्कारस्योद्बोधः, संबन्धस्मरणस्योत्पद्यमानता, संस्काराद्विचित्रप्रत्ययविनश्यत्तेत्येकः कालः २।अथ'संबन्धस्मरणस्योत्पादः, विचित्रप्रत्ययस्य विनाशः, पदप्रतिसन्धानस्य विनश्यत्तेत्येकः कालः३ इति । एवं च पूर्वपूर्ववर्णस्मृतिनिचयसहितान्त्यवर्णानुभवस्य विनश्यदविनश्यदवस्थयोश्च स्मृत्यनुभवयोर्बलेन श्रोत्रसंस्काराभ्यां सन्नन्त्यवर्णोऽसन्तः पूर्वे वर्णास्तदवगाही स्मृत्यनुभवरूपो विचित्रः प्रत्यय एव वाक्यार्थप्रत्ययहेतुरिति । तथाच तार्किकमतं भट्टवार्तिककारेण दर्शितं- .
चित्ररूपां च तां बुद्धिं सदसद्वर्णगोचराम् । . केचिदाहुर्यथा वर्णों गृह्यतेऽन्त्यः पदे पदे ॥ इति । तत्र पदप्रक्रियायां पूर्वपूर्ववर्णानुभवभावितभावनाकूटस्य तजन्यस्मृतीनां च तावद्वर्णविषयसमूहावलम्बनस्मृतिद्वारा नार्थप्रत्यायकत्वमित्यसकृदुपपादितम् । __ वाक्यप्रक्रियापि न प्रामाणिकी । अन्त्यवर्णानुभवात्प्राचीनस्मृतिनिचयसहितादपि युगपत्स्मृत्यनुभवरूपविचित्रप्रत्ययानुत्पत्तेः । यथोक्तं श्रीवाचस्पतिमित्रैस्तत्वबिन्दौ----' नचान्त्यवर्णोद्बोधितसंस्काराधीनजन्मा स्मृतिरनुभवेन सह युगपदुत्पत्तुमर्हति । न च न्याय्यो युगपदुत्पादः प्रत्ययानां करणस्य प्रत्ययापर्यायेऽसामर्थ्यात् ' इति । तथाच तत्त्वबिन्दौ त एव तत्संग्रहमाहुः
नान्त्यवर्णश्रुतिः स्मृत्यतीता वाक्यार्थबोधिनी ।
न स्मृतिस्तदपेक्षत्वाद्योगपद्यं न चानयोः ।। इति । प्राचीनस्मृतिसमयेऽन्त्यवर्णानुभवो नास्ति अनागतत्वात् अन्त्यवर्णानुभवसमये प्राचीनस्मृतिरेव नास्ति अतीतत्वादिति तस्यार्थः । द्वितीयटीकायामप्युक्तं वाचस्पतिमित्रैः--'अपि चेयमन्त्यवर्णश्रतिः स्वार्थसंकेतस्मृतिसापेक्षा तदनपेक्षा वार्थधियमाधत्ते । आद्ये संकेतस्मृतिकालेऽन्त्यवर्ण
१ समयेति पाठः।