________________
स्फोटतत्त्वनिरूपणम्। गौरित्येकावभासेऽस्मिन्नुपाधि कंचिदिच्छताम्। न भवेत्किंचिदप्येकं न च नानापि तबिना ॥१९॥
यववाक्यस्फोटवादिमते विभक्त्यन्तवर्णरूपपदस्य विवर्तत्वे दोषाभावात् ।
तस्मादेकत्वबुद्ध्या अनौपाधिक्या बाधितेयं वर्णनानात्वबुद्धिर्विवर्ततामालम्बमाना अधिष्ठानं स्फोटमेवालम्बत इति युक्तमुत्पश्यामः ॥१८॥
किंच गौरित्यत्राबाधिताप्येकत्वधीर्यदि प्रत्यक्षापलापिनां तत्तत्स्वसिद्धान्तश्रद्धाव्यामोहापस्मारिणौमापाधिकी स्यात्तदा सर्वत्र यत्किंचिदेकोपाधिसंभावनया काप्येकत्वबुद्धिः पारमार्थिकी न स्यात् । तद्विरहे तन्निबन्धनद्वित्वादिप्रतीतरपि विरहे शून्यमेवेदं जगदापयेतेत्यत आह-गौरितीति । इच्छतां वादिनां किंचिद्वस्तु तद्विना एकं विना ॥ १९ ॥ - अथ न्यायमतानुसारेण पदप्रक्रिया।
तत्र प्रथमवर्णज्ञानस्योत्पादस्तत्संस्कारस्योत्पद्यमानतेत्येकः कालः१ । ततः संस्कारस्योत्पादस्ततो द्वितीयवर्णज्ञानस्योत्पादस्तेन च द्वितीयवर्णज्ञानेन पूर्ववर्णानुभवजनितसंस्कारसहितेन द्वितीयवर्णसंस्कारस्योत्पद्यमानता पूर्ववर्णज्ञानविनश्यत्तेत्येकः कालः२। यद्यप्युत्पद्यमानता उत्पत्तिकारणसान्निध्यं विन. श्यत्ता च विनाशकारणसान्निध्यं तच्च ज्ञानं द्वितीयवर्णस्यैवेतिन कार्यकारणभावस्तथापि पूर्वपूर्ववर्णसंस्कासेत्पाद(ज्ञान?)विनाशौ प्रतिकारणत्वमस्त्येव । ततो द्वितीयवर्णसंस्कारस्योत्पादः,द्वितीयवर्णज्ञानविनश्यत्ता, प्रथमवर्णज्ञानस्य विनाशः, अन्त्यवर्णानुभवस्योत्पादः, पूर्ववर्णद्वयानुभवजनितसंस्कारयेनान्त्यवर्णानुभवसहकारिणा पूर्ववर्णद्वयविषयस्मरणस्योत्पद्यमानतेत्येकः कालः ३।ततोवर्णद्वयस्मरणस्योत्पादः, अन्त्यवर्णानुभवस्य विनश्यत्ता, द्वितीयवर्णज्ञानस्य विनाशः, ततः संकेतस्मृतेरुत्पद्यमानतेत्येकः कालः ४। ततः संकेतस्मृतरुत्पादस्तद्वर्णद्वयस्मरणस्य विनश्यत्ता, अन्त्यवर्णानुभवस्य विनाशः, पदार्थप्रतिपत्तेरुत्पद्यमानतेत्येकः काल: ५। ततः पदार्थप्रतिपत्तेरुत्पादस्तस्मरणस्य विनाशः, संकेतस्मृतेविनश्यत्ता, पदार्थसंस्कारस्योत्पद्यमानतेत्येकः काल: ६ । सतस्तत्संस्कारस्योत्पादः, पदार्थप्रतिपत्तेविनश्यत्ता, संकेतस्मृतेर्विनाश इत्येकः कालः ७ । ततः पदार्थप्रतिपत्तेरपि संस्काराद्विनाशः ८ ॥ यद्यप्यस्यां प्रक्रियायां संकेतस्मृतिसमय एवान्त्यवर्णानुभवस्य स्मरणेन