SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ शेषकृष्णविरचितं कारकपदेषु दुर्वारमितरेतराश्रयत्वं स्यात् । तस्माद्यपदेशमात्रानुरोधेनानेकवर्णमात्रावभासिनीषु श्रोत्रजासु बुद्धिषु तदाहितवासनालब्धजनुषि चानुभूतवर्णसंकलनात्मिकायां स्मृतावप्रथमान: प्रथमानवोपमर्दैन न शक्यः पदात्मा स्फोट इति वक्तुम् । किंच गौरित्येकं पदमित्यत्र भासमानमौपाधिकमेकत्वमस्यामेव भासमानं स्वाभाविकं वर्णनानात्वं न बाधितुमुत्सहते । नद्यौपाधिकं सिंहत्वं स्वाभाविकं नरत्वं बाधते । अत एव नैकत्वनानात्वयोर्विरोध इत्यत आह-प्रमेति । न खल्वज्ञातपदस्वरूपावधिः पदादर्थमवबुध्यते, सा रङ्गमागतेत्यादौ सेति पदमजानतोऽभिमतार्थप्रतिपत्तिविरहादिति ज्ञातैकपदस्वरूपावधिः पदादर्थमवबुध्यते, हि यतः सर्वे वादिनः पदं ज्ञातं सत्प्रमा प्रति करणमिति मन्यन्ते । तथा एकार्थसंबन्धाख्यानमप्येकपदत्वं नापादयति । तथाहि-वर्णानां केवलानां पदभावमनापन्नानामर्थप्रत्यायकत्वे व्युत्क्रमोच्चारितानामपि तत्प्रतिपादकत्वं स्यात् । असंबद्धानां तु प्रत्यायकत्वे यतः कुतश्चिद्यस्य कस्यचिदर्थस्य प्रतीतिः स्यादित्यवश्यं संबन्धो वाच्यः । स च पदत्वमापन्नत्वे वर्णानां संभवति । तच्च पदत्वं न तादृशस्फोटमन्तरेण । संबन्धाख्यानात्पदत्वकल्पने ध्रुवमन्योन्याश्रयः-पदत्वात्संबन्धित्वे सति आख्यानमाख्यानाच्च पदत्वमिति। चक्रकं च-पदत्वे सति संबन्धित्वं संबन्धित्वे च सति संबन्धित्वाख्यानं संबन्धित्वाख्यानाच्च पदत्वमिति । व्यवस्थितमेव तु वाचकत्वमाख्यायत इति । यत्तु लीलावतीकारेणोक्तम्-एकं पदमिति धीरेकसुप्तिङन्तत्वावच्छेदेनोपपद्यते । तत्रैकसुप्तिङन्तत्वावच्छेदः पदत्वे, नानासुप्तिङन्तत्वावच्छेदो वाक्यत्वे प्रयोजकः स्वीकरणीय एव । अन्यथा स्फोटत्वाविशेषे अयं पदस्फोटोऽयं वाक्यस्फोट इति विचित्रव्यवहारस्त्वन्मते कथं स्यादिति । तन्न। सुबन्ततिङन्तयोरनुगतस्यैकस्य पदत्वावच्छेदकस्य वक्तुमशक्यत्वात् । अन्यतरत्वस्य गौरवेणावच्छेदकत्वाभावात् । न च संख्यावाचकप्रत्ययत्वमेवानुगतमिति वाच्यम् । प्रत्ययत्वस्यैकस्यानुगतस्याभावात् । प्रतीयते येनार्थ इत्यन्वर्थस्य प्रकृत्यादिसाधारणतयातिप्रसङ्गात् । एक एव एकक इत्यादौ स्वार्थप्रत्ययेऽव्याप्तेश्च । विभक्तयन्तवर्णाभिव्यङ्ग्यत्वस्य पदस्फोटव्यवहारजनकत्वाद्विभक्त्यन्ततत्तद्वर्णाभिव्यङ्गयपदस्फोटभ्य एवाकाङ्क्षादिमहिम्ना वाक्यार्थसमुल्लासे पदस्फोटवादिमते वाक्यस्य न विवर्तत्वाङ्गीकारः। नित्यनिरव
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy