SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ स्फोटतत्त्वनिरूपणम् । यत्रानुवृत्ते व्यावृत्तिर्यस्य तस्मात्स भिद्यते । नदीदीनजरेत्यादिष्वेव वर्णेषु तद्भिदा ॥ १७ ॥ प्रमा न जायते तावद्यावन्न ज्ञायते पदम् । पदं हि ज्ञातं करणं सर्वे स्वीकुर्वते बुधाः॥१८॥ सिद्धं, प्रत्यक्षतरप्रमाणस्य प्रमेयसद्भावमात्रनिर्भासाय प्रवृत्तत्वात् । एवं च प्रमाणान्तरजन्या बुद्धिरसति कारणे न जायत एव सति तु कारणे जायते चेत्तदा व्यक्तैवेति न स्फोटार्थधियोः समानयोगक्षेमतेति । एतेन स्फोटव्यजकत्वेऽपि वर्णानां प्रत्येकसमुदायविकल्पावकाशः । तदुक्तम् यस्यानवयवः स्फोटो व्यज्यते वर्णबुद्धिभिः । सोऽपि पर्यनुयोगेन नैवानेन वियुज्यते ।। . इति निरस्त, स्फोटार्थधियोः प्रत्यक्षपरोक्षतया तद्व्यञ्जकत्वे वर्णानां समवाभावात् ॥ १६॥ ननु ते विभत्तयन्ताः पदम् ' इति न्यायसूत्रम् । अस्यार्थः-त एव वर्णा एव विभत्तयन्ताः पदं न स्फोटाख्यमिति ततो न वर्णभिन्नः पदात्मा स्फोट इत्यत आह-योति । यस्मिन्ननुवर्तमाने यव्यावर्तते तस्मात्स भिद्यते यथा सुवर्णावयवेष्वनुवर्तमानेष्वेव व्यावर्तते कटकमुकुटादिः । एवमनुवर्तमानेष्वेव वर्णेषु व्यावर्तन्ते पदात्मानो नदी दीन जरा राजेत्यादयः स्फोटा अतस्तेऽपि पदेभ्यो भिन्ना इति ॥ १७ ॥ ननु तथाप्येकं पदमित्येकत्वधी कवस्तुव्यवस्थापकं प्रमाणमपि तु व्यपदेशमात्रनिमित्तमिति यथा करितुरगादिषु चम्पकाशोककिंशुकादिषु कश्चिद्वैरिविध्वंसादिरेकदेशादिश्वोपाधिः, सेनावनमितिव्यपदेशमात्रजनकः, तथात्राप्येकार्थप्रत्ययहेतुत्वमेकार्थसंबन्धाख्यानं वाऽस्तूपाधिः । न चैकपदत्वे एकार्थप्रतीतिहेतुत्वमवगन्तव्यमवगते च तस्मिन्नेकपदत्वमित्यन्योन्याश्रय इति वाच्यम् । पूर्वमेकपदत्वावधारणानभ्युपगमात् । नहि पदावधारणाधीनः संबन्धबोधः, किंतु तद्धीनं पदज्ञानं, तथाचाहुर्द्वितीयटीकायां वाचस्पतिमिश्राः-एकस्मृतिसमारोहिणां वर्णानामसत्यप्यर्थावबोधे सुज्ञानत्वादिति । एकस्मृतिविषयानेकवर्णस्य च स्वार्थेन संकेतग्रहस्यापि सुकरत्वं, तदुत्तरकालं च पदमिति कारकशब्दप्रवृत्तिः । इतरथा सर्वेष्वेव - १ नैकेनापि विमुच्यते इति पाठः । २ एकार्थसंबन्धाख्यानबोधो वेति पाठान्तरम्। ..
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy