________________
शेषकृष्णविरचितं
सत्यस्फोटप्रमोदेति मिथ्यावर्णावभासतः। आराधनस्पती हस्तिबुडेरिव तरुपमा ॥ १५ ॥ प्रत्यक्षज्ञाननियता व्यक्ताव्यक्तावलासिता ।
न जायते जायते चेदयक्तैवेतरमानधीः ॥ १६ ॥ व्यावृत्तवर्णरूपावगाहिनी न वर्णानुविद्वैकवस्तुगोचरेत्यत आह-नाधिष्ठानमिति। वर्णा गादयोऽपि विवर्तास्ते चाधिष्ठानचैतन्यरूपे शब्दब्रह्मण्यध्यस्तास्तज्ज्ञाने स्फोटज्ञानमेव किंतु नासावर्थप्रतिपादक इत्यस्फुट इत्युच्यते । यदा तु प्राचीनप्रत्ययप्रचयरचितभावनापरिपाकसंवलिते चरमे चेतसि स्फुरति तदार्थप्रतिपत्तिहेतुरिति स्फुटतरमभिव्यक्तः स्फोट इत्युच्यते इति । यद्वा पूर्वपूर्ववर्णैरीषत्संदिग्धश्चरमवर्णबुद्धया तु नितरां निश्चयेन ग्राह्यः । तथाहि कमलमित्युक्ते ककारमकारानुभवेऽपि किं कमलीयः स्फोट: कमनीयो वेति संदेहो नापगच्छति तावद्याक्न चरमो लो नो वानुभूयते । तस्मादीषत्त्वं संदिग्धत्वं, निश्चितत्वमेव स्फुटतरत्वम् । अत एवान्त्यबुद्धिनिग्राह्यं संहृतक्रमस्वरूपं स्फोटमाहुरालंकारिका ध्वनिकागदयः। एतेनानंशस्य निखिलसामान्यविशेषविरहिणः स्फोटस्य स्फुटारफुटावभासो न संभवतीति निरस्तम् । अर्थप्रतीत्यनुरोधेन तत्कल्पनस्याविद्यकस्यावश्यकत्वादिति ॥१४॥
ननु यदि वर्णा विवर्ता उक्तास्तदा मिथ्याभूतैरमीभिः कथं परमार्थभूतस्य स्फोटस्य प्रमारूपो निश्चयः, मिथ्याभूतात्परमार्थभूतस्य निश्चयादर्शनादित्यत आह-सत्यस्फोटप्रमेति । दूरे वतमाने वनस्पती वृक्षे तदोषवशाजाताया मिथ्याभूताया अपि हस्तिबुद्धेर्यथा प्रवृत्तिद्वारा तरुप्रमोदेति तथा मिथ्याभूतवर्णावभासादपि सत्यस्फोटप्रमेति भावः ॥ १५ ॥
ननु यथा प्राञ्चो वर्णा अव्यक्तं चरमस्तु तज्ज्यन्यभावनासहितः स्फुटतरं स्फोटमवभासयति तथा पूर्वे वर्णाः प्रत्येकमव्यक्तां चरमस्तु तज्जन्यसंस्कारसहितो व्यक्तामर्थधियमेव किं नाधत्ते, किं तादृशानवयवस्फोटकल्पनयेत्यत आह-प्रत्यक्षेति । गौरित्येक पदमिति प्रत्यक्षस्य स्फोटस्य व्यक्ताव्यक्तावभासित्वमभिव्यक्तितारतम्यं संभवति न परोक्षस्याभिधेयज्ञानस्य । तथाहि शुक्तिसंपुटात्पृथकृते मुक्ताफले भवति परीक्षकाणां प्रथममव्यक्तं दर्शनं, ततो व्यक्तं, ततो व्यक्ततरं ततो व्यक्ततममित्यनुभवमार्गागतं, शुक्तिसंपुटान्तःस्थिते त्वमुष्मिन्ननुमेये नेदमभिव्यक्तितारतम्यमित्यप्यनुभव