________________
स्फोटतत्त्वनिरूपणम् । पूर्वपूर्वानुभूजन्यभावनासचिवेऽन्तिमे। चेतसि स्फुरति स्फोटो रत्नतत्त्वमिव स्फुटम् ॥१३॥ नाधिष्ठानं विनाध्यस्तप्रतीतिरुपजायते ।
तस्मात्परस्पराध्यास इति सर्व समञ्जसम् ॥ १४ ॥ स्फोट इति । यद्यपि वर्णव्यङ्गयो वर्णातिरिक्तः स्फोटस्तथापि स्वाध्यस्ततत्तद्वर्णतादात्म्यमुपगच्छति तस्मात्तत्तद्वर्णरूषितः प्रत्ययो जायते न दकारादिरूषितः । वराहमहिषयोस्तु नाधिष्ठानविवर्तभाव इति नानयोस्तादात्म्यबुद्धिः ॥ १२ ॥
ननु प्रत्येकमभिव्यञ्जकत्वे ध्वनीनां प्रथमादेव ध्वनेः स्फोटप्रतीतेस्तन्मात्रनिबन्धनत्वाचार्थप्रतीतेरुपपत्तौ द्वितीयादीनामानर्थक्यमित्यत आहपूर्वपूर्वेति । व्यञ्जयन्तोऽपि हि प्रत्येकमिमे ध्वनयो न द्रागेव स्फोटात्मानमवभासयितुमाशते अपि त्वीषद्रूपम् । तथाच पूर्वपूर्ववर्णाभिव्यक्तिजनितसंस्कारसहितचरमबुद्धौ स्फुटतरं चकास्ति स्फोटतत्त्वमिति प्रागनुत्पन्नायास्तदनन्तरमुत्पादोऽर्थधिय इति नोत्तरेषामानर्थक्यम् । न प्राचां, तदभावे तजनितसंस्कारपरिपाकाभावेनानुग्रहाभावादन्त्यस्य चेतसस्तब्यञ्जनेऽक्षमत्वात् । यदाह भर्तृहरिः
नादैराहितबीजायामन्त्येन ध्वनिना सह ।
व्यावृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥ इति । यथा रत्नपरीक्षिणः पुनः पुना रत्नं वीक्षमाणस्य रत्नदर्शनानि प्रत्येक रत्नस्वरूपमवगाहमानान्यपि न सहसैव समानासमानजातीयव्यावृत्तं तत्त्वमवभासयन्ति । किंतु पञ्चषदर्शनजनितसंस्कारसचिवे चरमचेतसि चकास्ति रत्नतत्त्वम् ।। १३ ।। __ ननु पूर्वपूर्ववर्णबुद्धावीषत्, चरमबुद्धौ तु स्फुटतरं स्फोटो न संभवति चरमज्ञानकाले प्राचां प्रत्ययानामतीतत्वात्तत्काले चरमज्ञानस्यानागतत्वादिति नासतां प्राचामसता चरमवर्णेनोपकारः । न च निर्भागे पदात्मनिवाक्यात्मनि वा स्फोटे गृहीते किंचिदस्याऽगृहीतमवशिष्यते यद्ग्रहणादव्यक्तत्वम् । नापि समारोपः सामान्यविशेषभावविरहात् । नहि सामान्यात्मनाप्यगृहीता शुक्ती रजतसमारोपविषयः । तस्माद्गौरित्यनुसंहारबुद्धिः परस्पर
१ वाक्यपदीये 'आवृत्त' इति पाठ १२ पूर्वपूर्ववर्णानुभवाहितसंस्कारसहिता अन्त्यवर्णबुद्धिः ।