SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ शेषकृष्णविरचितं यथा मणिकृपाणादौ मुखमेकमनेकधा । तथैव ध्वनिषु स्फोट एक एव विभिद्यते ॥ ११ ॥ स्फोटो वर्णातिरिक्तोऽपि तत्तादात्म्यमुपेयिवान् । प्रत्ययो जायते तस्मादसौ तंद्वर्णरूषितः ॥ १२ ॥ एते वृक्षा इतिवत् पढे एते तन्तव इतिवच्च वाक्ये ते वर्णा इति प्रत्यय इति वाच्यम् । अवर्णात्मन्यवर्णासमवेते वाक्ये वर्णोपरक्तबुद्धेरभावात् दृष्टा हि तदात्मनि तदुपरागवती बुद्धिर्वने वृक्षा इति, तत्समवायिनि पटे तन्तव इति । नैतदुभयं प्रकृतेऽस्त्यनङ्गीकारादित्यत आह- नित्या इति । इह नित्ये स्फोटे नित्या विभवश्च वर्णा नावयवा उचिताः । अवयविन्यूनपरिमाणत्वादवयवानाम् । नाप्यनित्यास्तथा, अवयविनो नित्यस्यावयवासंभवात् । अतः केवलं तस्य स्फोटस्य विवर्ताः । एवं च प्रमारूपा वर्णोंपरागवती धीर्माभूत् भ्रान्तिरूपा त्वस्त्येव । नच वस्तुतस्तद्रूपेण तत्समवायितया वा तदुपरक्तबुद्धिरिति नियमः । शुक्तेरपि रजतोपरक्तबुद्धिविषयत्वात् । तस्माद्विवर्ताधिष्ठानस्य परमार्थसतः स्फोटरूपस्याविद्याकल्पितेन वर्णविवर्तेन तत्तदुपरागवती प्रख्या न विरुध्यते । नच वर्णानां कचिदप्यभावान्न विवर्त इति वाच्यम् । काप्यसतां घटादिप्रपञ्चानामिव ब्रह्मण्यवभासोपपत्तेरित्यन्यत्र विस्तर इत्याह- प्रपञ्चा इति ॥ १० ॥ ननु यदि वर्णैर्नित्योऽनवयवः स्फोटो व्यज्यते तदा कथमस्माद्विलक्षणाद्विलक्षणतत्तदर्थप्रतिपत्तिरित्यत आह-यथेति । यथा मणिकृपाणदर्पणादौ मुखं नियतग्रीवास्थानमपि नियतगौरादिवर्णमपि नियतवितस्त्यादिपरिमाणमपि अनेकविधस्थानवर्णपरिमाणामिवाभिन्नमपि भिन्नमिव प्रतीयते तथा तत्तत्प्रयत्नभिन्नेषु ध्वनिषु स्फोट एकोऽपि नानावर्णात्मेव निरवयवोऽपि सावयव इवभिद्यमानः प्रतीयते । तथा च वाच्यस्य घटादेरर्थस्य, वाचकस्य स्फोटस्य भेद औपाधिकः । अत एव शब्दार्थयोरभेदमाद्रियन्ते ॥ ११ ॥ ननु गौरितिबुद्धिः पूर्वानुभूतान् गकारादीनेवावगाहते न तदतिरिक्तं स्फोटं, यदि गकारादिविलक्षणमवभासयेत्तदा न गकारादिरूपितः प्रत्ययः स्यात् । नहि वराहधीर्महिषरूषितं वराहमवगाहते । यदि चास्या धियोऽर्थान्तरो विषयः स्यात्तदा दकारादय इव गकारादयोऽपि व्यावर्तेरन्नित्यत आह १ मध्यमपरिमाणत्वेऽप्यनारभ्यत्वादवयविनोऽवयवासंभवः ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy