SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ स्फोटतत्त्वनिरूपणम् । नित्या नावयवा वर्णा नाप्यनित्या इहोचिताः। विवाः केवलं तस्य प्रपञ्चा ब्रह्मणो यथा ॥ १० ॥ गामानयेति दृश्यमानेभ्य एव वर्णेभ्यश्चेदभिधेयप्रत्यय उपपद्यते तदा नैतानपहायादृश्यमानमनवयवकं स्फोटतत्त्वं कल्पनीयं प्रमाणाभावात् । या चार्थप्रतिपत्तिस्तत्प्रमाणत्वेनोक्ता साऽन्योन्याश्रयग्रस्ता । तथाहि अर्थप्रतिपत्तौ सत्यां तदनुपपत्त्या स्फोटप्रतिपत्तिः, स्फोटप्रतिपत्तौ चार्थप्रतिपत्तिरित्यत आह-इदमिति । न कल्पयाम्यहं स्फोटं, प्रत्यक्षमेव त्वेनमवगच्छामि।तथाहि गौरित्येकं पदं गामानयेत्यायेकं वाक्यमिति सर्वजनसिद्धोऽयमनुभवो नापह्नवनीयः । तत्र पूर्वपूर्ववर्णग्रहणाहितसंस्कारायामनुसंहारबुद्धाववश्यमभिन्नं वस्त्वेकं समुल्लसतीत्येषणीयम् । न खल्वियमभिन्नवस्तुनिर्भासा बुद्धिः परस्परव्यतिरिच्यमानात्मनो वर्णानेव गोचरयितुमर्हति । एतादृशबुद्विविषये वस्तुन्येकस्मिन्नेकत्वनानात्वयोरसमवायात् । न च वनमिति बुद्धेवृक्षा इव पदमितिवाक्यमितिबुद्धेवर्णा एव विषया भवन्तीति वाच्यम् । तत्रैकदेशस्येवात्रैकबुद्धिविषयत्वस्यैकार्थप्रत्यायकत्वादेोपाधेरननुसंधानात् । अत्र पदस्फोटवादिनोऽपि मतसमर्थनाय पदमितिबुद्धेरित्युक्तम् । वस्तुतस्त्वनवयवः स्फोट एव वाक्यार्थवाचक इति मुख्यस्फोटवादिनो मतम् । तत्र चेदं तत्त्वं-कदाचिद्वाक्यमिति कदाचिदियन्ति पदानीति कदाचिदेतावन्तो वर्णा इति बुद्धिरुदेति । तत्राद्ये तावदेकबुद्धेरेकत्वावगाहिन्या एकमेव किंचिद्वस्तु प्रतीयमानं कारणमित्युपपादितम् । अन्त्यं द्वयमवशिष्यते । तत्र यदि देवदत्त गामानयेति त्रिभिः पदैः पारमार्थिकविशिष्टपौर्वापरारब्धं वाक्यं स्यात्तदा आनय गां देवदत्तेत्युक्ते तस्यावयविनो भङ्गात्तजन्यार्थप्रतीतिलक्षणाऽर्थक्रिया न स्यात् , ध्वस्तेषु कपालेषूदकाहरणादिवत् । तथा यदि देवदत्त गामानयेत्यत्र पारमार्थिकाः क्रमविशेषविशिष्टा अष्टौ वर्णा वाक्यारम्भकाः स्युस्तदा गां देवदत्तानयेत्यत्र सप्तवर्णा भिन्नक्रमाश्चेति ततो नार्थप्रत्ययः स्यात् । तस्माद्वर्णपदविभागमाविद्यकमङ्गीकृत्य सर्वेषूचार्यमाणेष्वनुस्यूतः कश्चिदर्थप्रत्ययौपयिको वाक्यात्माऽनदयवो नित्यः स्फोटोऽङ्गीकर्तव्य इति ॥ ९॥ ननुमा भूवन्वाक्यमितिबुद्धेर्वर्णा विषयाः वाक्ये एते वर्णा इति तु बुद्धिः सर्वजनीना अनेकाकारा कथमस्या वाक्यात्मा स्फोटो विषयः । न च वने १ आविद्यकवर्णाद्युपहितश्च वाचकः तेन न सर्वत्र सर्वबोधः ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy