________________
शेषकृष्णविरचितं
नानुभूतिक्रमाद्वर्णाः क्रमिकाः स्मृतिगोचराः। गोचरोऽनुभवो नास्यास्तत्क्रमस्तु कुतस्तराम् ॥ ८॥ इदं पदमिदं वाक्यमिमे वर्णा इति त्रिषु ।
प्रत्ययेषु स्फुटं स्फोट एक एवानुभूयते ॥९॥ विशेष इत्यत आह-नित्यानामिति । वर्णानां नित्यविभूनां कालतो देशतश्च न वास्तवः क्रमो नियामकः, सत्तामात्रेण तदङ्गीकारेऽतिप्रसङ्ग इति प्रतिपत्त्युपाधिकोऽयमङ्गीकार्यः । सा चेदेका स्मृतिरूपा कुतस्तर्हि क्रम इत्येकस्मृत्युपारूढानां वर्णानां क्रमाक्रमविपरीतक्रमाभिव्यङ्गयानां न कश्चिद्विशेष इति ॥ ७ ॥
ननु पूर्वपूर्ववर्णानुभवाः क्रमवन्तस्तत्क्रमतया वर्णेष्वप्येकस्मृतिसमारोहिप्वौपाधिकः क्रमः स्वीकार्यः। तथाचाहुर्मीमांसावार्तिककारमिश्रा:
पदावधारणोपायान्बहूनिच्छन्ति सूरयः।
क्रमन्यूनातिरिक्तत्वस्वरवाक्यश्रुतिस्मृतीः ।। इति । न केवलमेकार्थप्रत्यय एवैकं पदमिति व्यपदेशनिमित्तम्, किंतु क्रमादयो ऽपीत्यर्थः । तत्र रसः सर इत्यत्र क्रमः । करः करञ्ज इत्यत्र न्यूनातिरिक्तत्वे। इन्द्रशत्रुरित्यत्र स्वरः । सा रङ्गमागता नर्तकीति वाक्यम् । परमे व्योमनिति श्रुतिः । गृभ्णामीति — हृगृहोर्भश्छन्दसि' इति पाणिनिस्मृतिः । तथाच पूर्वानुभवक्रम एकस्मृतौ विशेषकः । तथाचाहुायटीकाकारमिश्रा अपि-'अर्थप्रत्ययकारणत्वं च न वर्णमात्राणामपि तु क्रमन्यूनातिरिक्तत्वाग्रुपहितानाम् ' इत्यत आह-नानुभूतीति । इयं पूर्वपूर्ववर्णानुभवजन्या तावद्वर्णविषयिण्येका स्मृति: पूर्ववर्णानुभवानेव न गोचरयति कुतस्तेषां क्रमम् ? एवं च प्राचीनानुभवोपाधिकोऽपि क्रमः स्मर्यमाणेषु वर्णेषु न विशेषक इति न तावद्वर्णसमूहावलम्बनस्मृत्यार्थप्रत्ययोपपत्तेरन्यथोपपत्तिरिति ॥ ८ ॥ ___ नमु प्राभाकरमतेऽनुभवाः स्वप्रकाशा इति तत्क्रमः स्मृतौ भासते । सत्यं, नहि ज्ञानं स्वप्रकाशमिति तत्क्रमोऽपि स्वप्रकाशः, तस्याऽस्वरूपत्वादविषयत्वाच्च । अथ स्वरूपविषयातिरिक्त आत्मांशः स्फुरतीति चेत्, तानेवैतत्पृच्छ ये तदङ्गीकुर्वते न वयं त्रिपुटीप्रत्यक्षवादिनः । न च सैरपि ज्ञानक्रमः स्वप्रकाश इति स्वीक्रियत इति । ननु कार्यानुसारिणी कारणकल्पना, तथाचाज्ञातोऽपि वस्तुतः स्थितः क्रमो विशेषको वक्तव्य इति