________________
स्फोटतत्त्वनिरूपणम् । नित्यानां च विभूनां च क्रमो नास्त्येव वास्तवः। उपलब्धिनिमित्तोऽस्ति सा चेदेका कुतः क्रमः॥७॥ ननु ये यथास्वं वर्णैराहिताः संस्कारास्ते संभूय निखिलवर्णविषयमेकमेव स्मरणं प्रसुवते । तथाचैकस्मृतिसमारोहिणो वर्णा अर्थस्य वाचका इति न गौरवं न च स्वभावविपर्यासः । तथाहि-संस्काराणां किं विजातीयोत्पादने सजातीयापेक्षा नास्तीत्युच्यते, किंवानेकविषयकैकस्मृतौ । नाद्यः । इदमेकमिदमेकमित्येकैकविषयकानुभवद्वयात् द्वाविति बुद्धिरुदेति सा च तदनुभवद्वयजनितसंस्काराभ्यामेव जन्यते । तदुक्तं भट्टप्पदैः. . सर्वेषु चैतदर्थेषु मानसं सर्ववादिनाम् ।
दृष्टं समुञ्चयज्ञानं क्रमज्ञानेषु सत्स्वपि । न चेत्तदभ्युपेयेत क्रमदृष्टेषु नैव हि ।
शतादिरूपं जायेत तत्समुच्चयदर्शनम् ।। इति । नान्त्यः । ते घटा इत्यादावनेकविषयकैकस्मृतौ संस्काराणामन्योन्यापेक्षादर्शनात् । तथा चैकशः प्रत्येकस्मृतिजनकत्वेऽपि मिलितानां संस्काराणामनेकवर्णगोचरैकस्मृतिजनकत्वं न विरुध्यते । दृष्टं चैतत्-संस्कारश्चक्षुराद्यनपेक्षः स्मरणकारणं, चक्षुरादयश्च तन्निरपेक्षा आलोचनकारणं, प्रत्यभिज्ञाने तु संस्कारसापेक्षाश्चक्षुरादय इति।।
न चैकस्मृत्युपारूढवर्णानां वाचकत्वे नदी दीन इति सरो रस इति क्रमस्मरणनियमाभावादक्रमविपरीतक्रमाभ्यां विशेषो न स्यादिति वाच्यम् । यावद्भयो यादृशेभ्यश्चार्थः प्रतीयते तावतां तादृशानां चार्थावबोधकत्वाङ्गीकारात् । तदुक्तम्
यावन्तो यादृशा ये च यदर्थप्रतिपादने । __वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः ॥ इति । यादृशा इत्यनेनैकवक्तृकाः क्रमिकाश्चेत्युक्तं, क्रमश्चानुपूर्वी, आनुपूर्वी च पूर्वपूर्ववर्णध्वंसो वा, पूर्वपूर्ववर्णज्ञानानन्तरमुत्तरोत्तरवर्णज्ञानं वा, पूर्वपूर्ववर्णोच्चारणानन्तरमुत्तरोत्तरवर्णोच्चारणं वा । एवं च यथा क्रमानुरोधिन्य एव पिपीलिकाः पङ्क्तिबुद्धिमारोहन्ति तथा क्रमानुरोधिन एव वर्णाः पदबुद्धिमारोक्ष्यन्ति । तथाच यद्यपि स्मरणलक्षणैकप्रतीतिवर्तिनां न विशेषस्तथापि यौगपद्यविपरीतक्रमाभिव्यक्त्यपेक्षया क्रमोच्चारितानामस्त्येव