________________
शेषकृष्णविरचितं
पूर्वानुभूतसंस्कारकूटान्नान्त्यस्पृशोऽर्थधीः।
स्वभावस्य विपर्यासात्कल्पनेऽन्यस्य गौरवात् ॥६॥ वास्तवी संगतिरतिप्रसङ्गिनी सर्वेभ्यः सर्वदार्थप्रत्ययप्रसङ्गादित्यनुभवानुसारिणी सा वक्तव्या तेषां चानेकत्वादनुभवकर्मतया अभिव्यक्तिरूपेण साहित्यं न संभवति । तथा तद्व्यञ्जका वायवो ध्वनयश्च बहवस्तैश्च व्यवधाने नित्यपक्षेऽपि नामीषां समुदाय इति ॥ ५॥ __नन्वर्थप्रत्ययानुपपत्त्या योऽयं नित्यो निरवयवः स्फोटोऽङ्गीक्रियते स न संभवति अर्थप्रतीतेरन्यथोपपत्तेः। तथाहि-स्मरणफलोन्नीतसद्भावास्तावत्पूर्वपूर्ववर्णानुभवसंस्कारास्तेषां कूटोऽन्त्यवर्णानुभवसहकारी । तत एवार्थप्रतीत्युपपत्तिरित्यत आह-पूर्वेति । यो यद्विषयानुभवजन्यः स तद्विषयां स्मृति प्रसूत इति संस्कारस्य स्वभावः । अर्थप्रत्ययप्रसवे त्वसौ विपर्यस्येत् । किंच यदि वर्णानुभवजनितः संस्कारकूटोऽन्यस्मिन्नर्थे धियमादध्यात्तदा सर्वोऽपि जनो यं कंचिदेकमर्थमनुभूय सर्वजानीयादित्यतिप्रसङ्गः। तथाच द्वितीयटीकायां वाचस्पतिमिश्रा:-'भावनापरनाम्नः संस्कारस्य स्वोत्पादकानुभवगोचरस्मृतिजननादन्यत्र सामर्थ्यादर्शनात् । नहि गवानुभवजनित: संस्कारः करोति स्मृति तुरगे' इति । एतेन प्रत्येकवर्णानुभवजनितसंस्कारकूटेन तावद्वर्णगोचरैका समूहालम्बनरूपा स्मृतिर्जन्यते ।सा चान्त्यवर्णसंगताऽर्थधियमाधत्त इति निरस्तम् । न च क्लृप्तस्मृतिजननशक्ती तादृशसंस्काररूपायां लाघवादर्थधीजननशक्तिकल्पनमिति वाच्यम् । शक्तावपि शक्तिकल्पनायां वह्नयादिशक्तावपि शक्तिकल्पनेऽनवस्थादूषणप्रसङ्गः । किंचयथा स्मृतिलक्षणकार्यान्यथानुपपत्तिकल्पिता संस्काराख्या शक्तिनान्त:करणादौ कल्प्यते किंतु यत्रात्मनि तत्फलं स्मृतिलक्षणं समवेतं तत्रैव तथाऽर्थप्रत्ययानुपपत्तिकल्पितार्थप्रत्ययजननशक्तिस्तत्फलवत्यात्मनि कल्पयितुं युज्यते न पुनरतद्वत्यां स्मृतिजननशक्तौ । न चात्मन्येवास्त्वियमिति वाच्यम् । एकैकवर्णानुभवेन स्वस्वविषयस्मृतिजननशक्तिरेका अर्थप्रत्ययजननशक्तिश्चापरेति कल्पनागौरवप्रसङ्गात्। किंच गादिरूषिते तदधिष्ठानभूते चिदात्मनि तामङ्गीकुर्वता भवताप्यागतमस्मदीये पथीति न नो विवादः ॥६॥
१ संयोगाभिव्यक्तिय॑जकक्रमेणैव । २ स्मृतिवैयधिकरण्यात् ।