SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ स्फोटतत्त्वनिरूपणम् । नित्यानामपि वर्णानां तत्तयञ्जकवायुभिः। ध्वनिभिर्वा तिरोधाने न वर्णसमुदायधीः॥५॥ तेन यत्प्रार्थ्यते जातेस्तद्वर्णादेव लप्स्यते । __ व्यक्तिलभ्यं तु नादेभ्य इति गत्वादिधीवथा ॥ इति । व्यक्तिलभ्य उदात्तादिभेदः । एवंचाबाधितप्रत्यभिज्ञाबलादेकत्वे निश्चिते तद्व्यजकध्वनिविषयोऽयं विचित्रः प्रत्ययो न वर्णविषय इति । किंच वर्णभेदे दश गकारानुदचारयदिति प्रत्ययः स्यान्न दशकृत्वो गकारमिति । तथाचाह शारीरकभाष्ये भगवान् शंकराचार्यः-वर्णव्यक्तय एव हि प्रत्युच्चारणं प्रत्यभिज्ञायन्ते द्विर्गोशब्द उच्चरित इति हि प्रतीतिः, न द्वौ गोशब्दाविति । यद्यपि सोऽयं गकार इति प्रत्यभिज्ञास्ति तथाप्युत्पन्नो गकारो विनष्टो गकारस्तारो गकारो मन्द्रो गकार इत्या'चुनेकप्रतातिबलेन भेदे भासमाने प्रत्यभिज्ञायास्तजातीयत्वं विषयो नतु व्यक्त्यभेदः । न चैवं तज्जातीयोऽयमिति धीः स्यान्न तु सोऽयमितीति वाच्यम् । सैवेयं दीपशिखा, तानेव तित्तिडीनुपभुजे, तदेवेदमौषधमन्यैः पीतं मयापि पीयते, इत्यादिषु तज्जातीयप्रतीतेरपि सोऽयमित्याकारदर्शनात्, तज्जातीयोऽयं न सोऽयमिति व्यक्त्यभेदाप्रतीतेश्च । नच गत्वादिजातावेव विवदितव्यं । गकारोऽयं, गकारोऽयमित्यनुगतगकाराकारप्रतीतिबलेन स्त्रीपुंसादिवक्तृविशेषानुमानबलेन च तत्सिद्धेः । अन्यथा जातिमात्रोच्छेदप्रसङ्गः । न च प्रमारूपप्रत्यभिज्ञाबलेन ध्वनिगत एवायमुत्पादादिप्रत्यय इति विनिगमनाविरह इति वाच्यम् । उभयप्रतीत्यप्रामाण्यकल्पनापेक्षयैकस्या एव प्रत्यभिज्ञाया अप्रामाण्यकल्पनालाघवस्य विनिगमकत्वात् । तस्मादुभयमते स्फोटरूपशब्दपरब्रह्मणो न ब्रह्मणाप्यपह्नवः कर्तुं शक्यत इति ॥ ४ ॥ ननु मा भूदाशुविनाशित्वं नित्या एव वर्णा इति दर्शने कथमसहभाव इत्यत आह-नित्यानामपीति । नित्यानामपि अपिशब्दाद्विभूनां च १ येन वर्णेषु व्यक्तिभेदो ने स्फुटस्तेन यत्प्रत्यभिज्ञानं जातेः प्रार्थ्यते व्यक्तिलभ्यः भेदप्रत्यय इत्यर्थः । प्रत्यभिज्ञानस्य वर्णैक्याविरुद्धधर्मवत्तायाश्च ध्वनिगतत्वादुपपत्तिरित्यर्थः । यदा जातरेकत्वेन हेतुना यत्प्रत्यभिज्ञानं तद्वर्णैक्यादुपपाद्यम् । भेदप्रतीतिस्तु ब्यञ्जकध्वनिगतभेदविषयत्वेनोप. पायेति । २ साक्षाद्वर्णगतत्वेन प्रतीयमानोत्पत्ते रोप इति भावः । ३ ध्वनिवैजात्यान्नरशुको. चारितगयोर्न प्रत्यभिज्ञाविषयत्वमुभयमतेऽपि । वक्रनुमानाच्च सिद्धं वैजात्यम् । ४व्यक्तिसादृश्येने काकारप्रतीतिसिद्धौ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy