SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ शेषकृष्णविरचितं वर्णानां प्रत्यभिज्ञानबलात्स्यान्नित्यता यदि । अनित्यतैव किं न स्यादुत्पादादिधियां बलात् ॥ ४॥ न तावदाद्यः पक्ष:-सर्वत्रावयवानामवयव्यपेक्षया न्यूनपरिमाणत्वं दृष्टं वर्णानां च परममहतां तदसंभवेऽवयवत्वाभावात् । न मध्यमः-वर्णानामाकाशगुणत्वे सत्यद्रव्यतया समवायिकारणत्वाभावे द्रव्यसमवायिकारणत्वरूपस्यावयवत्वस्याभावात् । नान्त्यः-आशुविनाशिनां क्रमिकाणामसहभवामसंबद्धानामवयविनमबिभ्राणानामवयत्वाभावादित्यनवयवःप्रत्यस्तमितवर्णपदविभागो वाक्यस्फोट एव श्रेयानिति तत्त्वम् ॥ ३॥ ननु वर्णाना नित्यतयास्ति समुदायः स चार्थ गमयतीत्यत आहवर्णानामिति । योऽहं बाल्ये पितरावन्वभवं सोऽहमिदानी नप्तननुभवामीति प्रत्यभिज्ञाबलादात्मनो नित्यत्वमिव स एवायं गकार इत्यादिप्रत्यभिज्ञानवलाद्वर्णानां नित्यत्वम् । न चैषा भ्रान्ता, बाधकाभावात् । अथ प्रत्यभिज्ञाबाधकं किंचिदुत्प्रेक्षणीयम् । तदुक्तम् उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधकम्। स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ।। इति । तत्रैकस्मिन्बहूनामुच्चारयतामुदात्तोऽनुदात्तः, सानुनासिको निरनुनासिकश्चेति विरुद्धधर्माध्यासाद्वाधकानेदो वर्णानाम् । न चोदात्तायो वर्णव्यञ्जकधर्मा न वर्णधर्मा इति वाच्यम् । तद्व्यञ्जका वायवस्तेषामश्रावणत्वे तद्धर्माणामश्रावणत्वापत्तेरिति । उच्यते । गुण्यग्रहणेऽपीन्द्रियाणां गुणग्रहणमस्ति कथमन्यथा भूजलाकाशाग्राहकैणिरसनश्रोत्रैर्गन्धरसशब्दा गृह्येरन् । एतेन तारत्वादयोऽपि विरुद्धधर्मा व्याख्याताः । भवेतां वा गुणगुणिनावेकेन्द्रियग्राह्यौ तथापि न दोषः । ध्वनीनामपि शब्दवच्छ्रावणत्वेन तद्गतोदात्तादिधर्मप्रतीतेः । अथ या प्रत्यभिज्ञा सा गत्वादिजातिविषया न गादिव्यक्तिविषया।अत एव शब्दभेदोपलम्भाद्वक्तृभेद उन्नीयते । सोमशर्माधीते न विष्णुशर्माधीत इति । सत्यम् , योऽयं गादिव्यक्तिभेदमङ्गीकृत्य गत्वस्यैकस्य पैरोपधानभेदकल्पनाप्रयासः स परं गादिव्यक्तावेवास्तु किमन्तर्गडुना गत्वेनाङ्गीकृतेन । तथाचाहुः १ तेभ्य एवार्थप्रतीतौ स्फोटवैयर्थ्य तु न एकं वाक्यमिति प्रतीतेरौपचारिकत्वे सर्वत्रावयव्यसिद्धयापत्तेः । २ महापटारब्धरज्जो तन्तूनामेवावयत्वं हेतुत्वं चेति न व्यभिचारः । ३ उत्तरोत्तरं पूर्वपूर्वस्य हेतुत्वम् । ४ कचिद्वयभिचार(रा?)दर्शने तदुत्प्रेक्षायामिदमुच्यते भट्टैः। ५ गकाराद्युपहितत्वेन ब्रह्मसत्ताया गत्वादिरूपभेदकल्पनाप्रयासः।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy