SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ शेषकृष्णविरचितं स्फोटतत्त्वनिरूपणम् । शब्दब्रह्मचिदानन्दमधिष्ठानमुपास्महे । यस्थ वर्णाः पदं वाक्यं विवर्ताः संचकासति ॥१॥ महाभाष्यमतं भर्तृहरिणापिप्रकाशितम्। आलोच्य सर्वतत्राणिस्फोटतत्त्वं निरूप्यते॥२॥ न प्रत्येकं न मिलिता न चैकस्मृतिगोचराः। अर्थस्य वाचका वर्णाः किंतु स्फोटः स च द्विधा॥३॥ इह खलु पदाद्वाक्याचार्थप्रतीति: सर्वानुभवसिद्धा सर्ववादिसंमता च । तत्र वर्णा न प्रत्येकमर्थमभिदधति, प्रथमवर्णादेवार्थप्रतीतौ वर्णान्तरवैय •पत्तेः । नापि मिलिताः, उच्चरितप्र«सिनां ऋमिकाणां मेलनाभावात् । नाप्येकस्मृतिगोचराः, नदी रस इत्यादौ दान सर इत्येकस्मृतिविषयत्वेनाविशेषापत्तेः । अतो वर्णाभिव्यङ्गयः पदस्फोटो वाक्यस्फोटो वाऽनवयव एको नित्योऽर्थवाचक इत्याह-न प्रत्येकमिति । द्विधा पदरफोटो वाक्यस्फोटो वा । तत्र पदस्फोटवादी पदस्फोट एव नित्योऽनवयवः परमार्थसन्नधिष्ठानं वर्णवाक्ययोस्तत्राध्यासात्ते तद्विवर्त इति तद्विभाग आविद्यकः । केवलपदस्फोटेभ्य एवाकाङ्क्षादिमहिम्ना वाक्यार्थः समुल्लसतीति मन्यते । वाक्यस्फोटवादी तु वाक्यमेव नित्यमनवयवमधिष्ठानं वर्णपदे तु तद्विवर्त इति तद्विभाग आविद्यक इति मन्यते । वाक्यस्फोटपक्षे कश्चित्तं सावयवं मन्यते तदा तत्तत्ताल्वादिस्थानोद्भववायवीयनादापरनामकध्वनिविशेषाभिव्यङ्या नित्या विभवोऽपि वर्णा एवावयवाः । इयान्विशेषः । यन्निरवयवपक्षे ध्वनीनां, सावयवपक्षे ध्वनिव्यङ्गयवर्णानां, स्फोटव्यञ्जकत्वमिति । वस्तुतस्तु सावयवपक्षो न संभवति । तथाहि-वर्णाः स्फोटस्यावयवा भवन्त: किं भट्टमतमवलम्ब्य विभूनि द्रव्याणि भवेयुरथवा तार्किकमतमालम्ब्य गगनगुणा आहोस्विदेकदेशीयमतमवष्टभ्य वायवीयारब्धव्याणि ? १ अवयवत्वार्थ द्रव्यत्वम् ।
SR No.034264
Book TitleVadarth Sangraha Part 01 Sphot Tattva Nirupan Sphot Chandrika Pratipadik Sangnavad Vakyavad Vakyadipika
Original Sutra AuthorN/A
AuthorMahadev Sharma Gangadhar Bhatt
PublisherGujarati Printing Press
Publication Year1913
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy