________________
कर्ता गोडबोलेउपनामको नारायणपण्डितः । एतत्प्रणीतं ग्रन्थान्तरं न श्रूयते । अस्मदुपलब्धं प्रातिपदिकसंज्ञावादपुस्तकं विक्रमसंवत् १८८८ वत्सरे लिखितमिति ततः प्राचीनोऽयमिति ज्ञायते । वाक्यवादस्य कर्ता क इति न ज्ञायते । पुस्तकस्यातिजीर्णत्वात् प्राचीनः कश्चित् पण्डित इत्यनुमीयते । अत्र यद्यप्यन्ते 'अत्र नैयायिकाः प्रत्यवतिष्ठन्ते' इत्युपक्रम्य नैयायिकमतोपरि वैयाकरणैरुद्भावितान्दोषानिराकृत्य ग्रन्थः समापितस्तथापि वैयाकरणमतस्यैव विशदतयोपपादनादेनमत्र समगृह्णाम् । वाक्यदीपिकाख्याया वाक्यवाटीकाया मुखपत्रमुद्रणावसरे प्राप्तत्वात्तामन्ते निवेशितवान् । स्फोटतत्त्वनिरूपणपुस्तके दृष्टाष्टिप्पणीरपि न्यवेशयम् । अत्र प्रातिपदिकसंज्ञावादे मुद्रणारम्भात्प्राक् पण्डितश्रीनिवासाचार्यकट्टीशास्त्री इत्येतैः, मुद्रणावसरे पण्डितरमापतिमित्रैः, मुद्रणोत्तरं च पण्डितदत्तात्रेयशास्त्री निगुडकर इत्येतैः शुद्धपाठबोधनेनाहमनुगृहीत इति तेषामुपकारं भृशं स्मरामि ।
बाक्रे इत्युपाहो गङ्गाधरभट्टसूनुर्महादेवशर्मा.