________________
स्फोटतत्त्वनिरूपणम् । श्रुतिरुपरता क्षणिकत्वेनेति कया स्मृतिरपेक्षेत । अन्त्यवर्णश्रुतिसमये च संकेतस्मृतिरनागतोत किमल्यवर्णप्रत्ययोऽपेक्षते । संकेतस्मृत्यनपेक्षत्वे त्वगृहीतसंकेतस्यापि प्रथमवर्णश्राविणोऽर्थप्रत्ययप्रसङ्ग इति ।
तस्मात्पदस्फोटाद्वाक्यस्फोटाद्वार्थप्रत्यय इति स्थितम् । अत एव शब्दप्रभवत्वमाख्यायते जगत इत्यन्यत्र विस्तरः । अत एव चागमेऽपि
शब्दब्रह्म यदूचिरेसुकृतिनश्चैतन्यमन्तर्गतं
तद्वोऽव्यादनिशं शशाङ्कसदनं वाचामधीशं महः । इत्यायुक्तमित्यलमतिविस्तरेण ।
प्राक्तत्रसूक्तिमुक्तानां माला कृष्णविनिर्मिता । । विदुषामद्विषां कण्ठे भासतामसतामपि ॥ १ ॥ क्रियाकारकभावेन यत्सर्वत्रानुभूयते । स प्रत्यगात्मा जयति शब्दब्रह्ममय महः ॥ २॥ शब्दब्रह्माभिधं श्रीमद्भाष्यकारस्य संमतम् । श्रीकृष्णशेषविदुषा स्फोटतत्त्वं निरूपितम् ॥३॥ विद्वद्भिः सदसद्व्यक्तिकारिभिःसारहारिभिः।। · रागविद्वेषरहितैर्दूषितं वाऽस्तु भूषितम् ॥ ४ ॥ इति श्रीशेषकृष्णविरचितं स्फोटतत्त्वनिरूपणं संपूर्णम ॥