________________
सटीकतार्किकतायाम् ।
भवत्वं नाम । प्रत्युत्पन्नासाधारणकारण प्रसूत प्रत्ययत्वं वा (१) तदविदूरप्राक्कालोत्पत्तिनियतासाधारणकारणप्रसूतप्रत्ययत्वं वा । स्मृतेरुत्वसाधारणकारणं संस्कारः । तस्य तदुत्पादने तात्कालिकत्वनियमाभावान्न स्मृतेर्भेदकं वाच्यम् । अन्यथा तयावर्तकत्वासम्भवादिति पृच्छति । किमिदमनुभवत्वं नामेति । कारणवैलक्षण्यं ताव
कमाह । प्रत्युत्पन्नेति । प्रत्युत्पन्नं प्रत्यग्रजातम् । ननु स्मृतावपि समानमेतत् तत्कारणसंस्कारस्यापि स्वोत्पसिकाले प्रत्ययत्वादित्याशङ्क्य एतदेव निर्ब्रते । तद्विद्रेति । तस्य कार्यभूतस्य योsविदूरः प्राक्कालसन्निहितपूक्षणः तत्रोत्पत्या नियतव्याप्तं तत्कालैकजन्यमित्यर्थः । स्मृत्यसमवायिकारणात्ममनः संयोगनिरासार्थमसाधारणेत्युक्तम् । घटादिव्यभिचारवारणार्थ प्रत्ययपदं स्वत्पत्तिसन्निहितपूर्वक्षणजन्यासाधारणकारणोत्थज्ञानत्वमनुभवत्वमित्यर्थः । स्मृतेरेतद्व्यतिरेकमभिव्यक्तुं तत्कारणं चाह । स्मृतेस्त्विति । संस्कारमात्रजन्यं ज्ञानं स्मृतिरित्यर्थः । मात्रपदेन प्रत्यभिज्ञा दिव्युदासः । तत्र सन्निकर्षप्राधान्यात् । यथाहुः । अथ ग्रहणस्मरणयेोः कियती सामग्री । अधिकार्थसन्निकर्षो ग्रहणस्य संस्कारमात्रसनिकर्षः स्मरणस्येति । ननु प्रत्युत्पन्नसंस्कारोत्थस्मृतावतिव्यातिरित्याशङ्कय तन्निरासार्थमेव नियतपदमित्याह । तस्येति । एतेनानुभवत्यं नामपाधिकं सामान्यमित्युक्तम् । सम्प्रति मुख्यमेवास्तु ज्ञानत्वव्याप्यमित्याह । ज्ञानत्वेति । प्रमाऽप्रमावृत्तिज्ञानत्वसाक्षाद्यान्यसामान्यमनुभवत्वं पूर्वोक्तस्यैव व्यवस्था
(१) प्रत्युत्पत्यादि नास्ति B पु. |
१०
૬૪
100