________________
प्रमाण प्रकरणम् ।
लक्षणम् । तत्र यथार्थेत्पययार्थविषयाः पीतशङ्खादिविभ्रमा व्यदस्यन्ते तत एव तर्कसंशययेोरपि व्यवच्छेदसिद्धिः । तर्कस्याहार्यलिङ्गजनितत्वेनारोपितविबयत्वस्याग्रे समर्थयिष्यमाणत्वात् । विरुद्धानियतकोटिद्वयावलम्बिनश्च संशयस्य तादृशविषयासम्भवेनायथार्थत्वात् । अनुभव इति स्मृतेर्निरासः । किमिदमनु
शय प्रकृतेrपयोगान्न दोष इत्यभिप्रेत्याह । यथार्थानुभव इति । तत्राद्यविशेषणस्य व्यावर्त्त्यमाह । यथार्थेति । अयथार्थविषयत्वं तु तेषां बाधदर्शनादिति भावः । तस्यैव व्यावन्तरमाह । तत एवेति । अयथार्थविषयत्वादेवेत्यर्थः । ननु तर्कस्य व्याप्त लिङ्गसमुत्थस्य प्रमाणाङ्गभावेन प्रमितिजनकस्य कथमयाथार्थ्यमित्याशङ्क्य बाधादित्याह । तर्कस्येति । व्याप्तलिङ्गस्याप्यारोपितत्वाद्दोष मूलारोपवबुडिमूलारोपेsपि विषयापहारस्य तुल्यत्वादयाथार्थ्यं तथात्वेऽप्यनिप्रसञ्जनद्वारा साध्याभावशङ्गोच्छेदकत्वात् प्रमाणाहृत्वं वेति भावः । तर्हि संशयो नायथार्थः तद्विषयस्य विभ्रमन्नेदमिति बाधादर्शनादित्याशङ्कयाह । विरुद्धेति । यस्य ज्ञानस्य यावद्विषयः तस्य तथैव सत्त्वे तद्यथार्थ नान्यथेति स्थितिः । संशयस्य हि विरुद्धा नियतकोटिद्वयात्मा विषयः । तस्य च तादृशस्यानन्तरमेव नियतैकको टिग्राहिणा तदुपमर्दकज्ञानेन बाधादसम्भवादयथार्थमित्यर्थः । तदुक्तं शालिकायां पूर्वपक्षे |
स्थाणुवी पुरुषो वेति सन्देहो योऽपि जायते । अभावात् तादृशार्थस्य स यथार्थः कथं भवेत् ॥ इति । अधानुभव पदव्यावर्त्त्यमाह । अनुभव इति । तस्याः