________________
३८४
सटीकतार्किकरक्षायाम्
हेते। विकल्प्य साध्यार्थपूर्वापर सहोदयम् । त्रेधापि तस्य हेतुत्वभङ्गो हेतुसमेो भवेत् ॥ २१ ॥
1
इयं च कृतिज्ञप्तिसाधारणी ज्ञातिः । साध्या| यत् पूर्व पश्चात् तेन सह वा साधनस्योदयः उत्पत्तिज्ञानं वा तत्र सहभावो विशेषादहेतुः पूर्वभावे साध्यप्रतियोनित्वेन साधनत्वस्य साध्याभावे किमपेक्षेदं 'साधनं स्यादिति साधनत्वाभावः । पश्चाद्भावे पूर्वसिद्धस्य साध्यस्य कथमिदं साधनं स्यादिति । त्रेधापि हेतुत्वभङ्गेन प्रत्यवस्थानम हेतुसमः प्रतिकूलतर्केौ द्वारं साध्यसाधनभावो दूष्यः इतरेतराश्रयलक्षण प्रतिकूलतर्कप्रतिघात श्रारोप्यः सूत्रं तु त्रैकाल्यासिद्धे हैतारहेतुसम इति । सेयं ज्ञातिः सूत्रकारैरेव प्रमाणपरीक्षायामुदाहृतैव । प्रत्यक्षादीनामप्रामाख्यं त्रिकाल्यासिद्धेरिति । उद्धारसूत्रम् न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिरिति । ज्ञप्तिपक्षे तावत् त्रिकाल - तादपि हेतोर्यथायथं साध्यज्ञानदर्शनान्न त्रैकाल्यासिद्विरिति । भग्नव्याप्तिकत्वात् तर्कस्य युक्ताङ्गहानिः । कृतिपक्षे तु पूर्वकालीनादेव हेतेाः पश्चाद्भाविनः साध्यस्योत्पन्तेन त्रैकाल्यासिद्धिः । साध्यप्रतियोगिनः साधनस्य कथं तदभावे सिद्धिरिति चेत् न साधनत्वव्यवहारस्तावद्वद्विस्येनापि साध्येन सिध्यतीति न स्वरूपसत्तामपेक्षते । तयापारश्च स्वशक्तिमात्रेण भवन्न
३८२