________________
जातिनिरूपणम् ।
३८३
ततश्च संशयापादनलक्षणप्रतिषेधा नास्तीति सूत्रार्थः ॥ १९ ॥
तुल्यत्वमभ्युपेत्यैव परहेतेाः स्वहेतुना । बाधेन प्रत्यवस्थानं प्रक्रियासम इष्यते ॥ २० ॥
अभ्युपगतानधिकबलेन प्रतिप्रमाणेन परकीयहेतेाबधाभिमानेन प्रत्यवस्थानं प्रकरणसमा जातिः । तदुक्तम् उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमं इति । साधर्म्यमत्र प्रतिप्रमाणमात्रोपलक्षणपरम् । प्रक्रियत इति प्रक्रिया साध्योर्थः तस्य सिद्धेर्निश्चयादित्यर्थः । तथा च प्रतिधर्मसमाना भेदसिद्धिः । यथा अनित्यः शब्दः कार्यत्वादित्युक्ते मैवं श्रावणत्वेन नित्यत्वस्य सिद्धेः । प्रत्यभिज्ञाबाधितत्वाद्वेति प्रतिप्रमागोपलम्भः कारणमस्याः बाध प्रारोप्यः । दुष्टत्वमूलं तु 'सौत्रः स्वव्याघातः । यथा प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षेोपपत्तेरिति । श्रयमर्थः स्थापनानधिकबलात् प्रतिपक्षसाधकप्रमाणात् प्रक्रियमाणार्थसिद्धे हैतानी स्मत्पक्षस्य बाधलक्षणप्रतिषेधः । प्रतिषेधानधिकबलेनैव स्थापना हेतुता भवत्प्रतिपक्षस्यास्मत्साध्यस्य सिद्धेरिति बाधाङ्गस्याधिकबलत्वस्यानङ्गीकारी युक्ताङ्गत्यागश्चेति हृदयम् ॥ २० ॥
विरुडः कालात्ययापदिष्टः प्रकरणसमो वा न वा आये प्रस्तुतहेतुरपि तथा द्वितीये यदापन्नः स्यात् तथेति सकलहेत्वाभासप्रसङ्गो द्रव्य इत्यर्थः ( ? ) ॥ १६ ॥
A- No. 6, Vol. XXIII - June, 1901.
३८१