________________
हेत्वाभासनिरूपणम् ।
भविष्यति तद्धेतुभूतादृष्टाश्रयत्वादिति । व्यायाश्र ययोरज्ञानासिद्धिरुदाहर्तव्या । एताश्चासिद्धयोऽन्यतराभियाऽसिद्धिभेदेन च भिद्यन्त इति ॥ ८४ ॥ s ॥
२३०
सिद्धसाधने तु सिद्धविशेषणत्वेन पक्षाभासतामिति केचित् । तान्निराकुर्वन्नसिद्धावन्तभावमाह । श्राश्रयासिद्धता हेताः सिद्धधर्मस्य साधने (२) ॥८५॥ पक्षी हि संश्रयस्तस्य स व साध्यान्वितेा यतः ।
भविष्यन्मैत्रीपुचो वाग्मी भविष्यति विशिष्टपुरुषत्वात् इत्यज्ञानव्याप्त्याश्रयासिद्धयोरुदाहरणे । अथ सर्वसिद्धिसाधारणं द्वैविध्यमाह । एताश्चेति । अनित्यः शब्दः बाह्येन्द्रियप्रत्यक्षद्रव्यत्वादिति वाद्यसिद्धिः नैयायिकैः द्रव्यत्वानभ्युपगमात् कृतकत्वादिति प्रतिवाद्यसिद्धि: मीमांसकैस्तदनङ्गीकारादित्युभयविधेयमन्यतरासिद्धिः तत्रैव चाक्षुषत्वादित्युभयासिद्धिः ॥ ८४ ॥ ॥ ॥
ननु पूर्व के पक्षतडर्मयेोरभावादाश्रयासिद्धिरिति व्याख्यानादेव सिद्धसाधनस्थाप्याश्रयासिद्धित्वमेवेत्युप्रायमेव तत् किमर्थमुत्तरश्लोके पुनरुच्यत इत्याशङ्का पक्षपक्षाभासत्वपक्षप्रतिक्षेपार्थमित्याह । सिद्धसाधने
त्विति ।
साध्यान्वित इति । सन्दिग्धसाध्यधर्मक इत्यर्थः ।
(१) सिद्धविशेषणत्वेन पचाभासः सिद्धसाधनमिच्छन्ति के चित् - प्रा. B. ।
(२) साधनात् - प्रा. C. 1
घ - No. 1, Vol. XXIII. - January, 1901.
४१