________________
तर्कनिरूपणम् ।
२०३
भावना फलत्वेनावधारयति ज्योतिष्टोमेन स्वर्गं भावयेदिति । एवमन्यत्राप्यन्यथासिद्धिनिरसनादिरनुग्रह) स्तत्रतत्र दर्शयितव्यः । तस्मात् साधूकं प्रमाणानुग्राहकस्तर्क इति । अत एव प्रमाणानामनुग्राहकस्तर्कस्तत्त्वज्ञानाय कल्पत इति भाष्यम् । प्रमाणविषयविभागात् तु प्रमाणानुग्राहक इति च वार्त्तिकम् । अनुजानन्ननुगृहातीति टीकापि । अन्वयव्यतिरेकविषये भूयो दर्शन साहाय्यकमाचरन्ननुग्राहकस्तर्क इत्यात्मतत्त्वविवेकश्च । ननु तर्कस्याहार्यलिङ्गजन्यत्वेन
I
सानमाह । अस्ति चेति । फलितमाह । इति तर्केणेति । भावना फलत्वेन भाव्यत्वेनेत्यर्थः । अथोपमानादावपि तकीनुग्राहकत्वमतिदिशति । एवमिति । पञ्चषादिप्रमाणवाद्यभिप्रायेण तत्रतत्रेति वीप्सा । उपमानफलस्य मानान्तरसाध्यत्वे तत्प्रकरणोक्तदोषापत्तिरिति तर्केणान्यथासिद्धिनिरासः | आदिशब्दाद् विषयाभ्यनुज्ञानसंग्रहः । परमप्रकृतमुपसंहरति । तस्मादिति । तर्कस्य प्रमाणानुग्राहकत्वे पक्षिलादिसम्मतिमाह । अत एवेत्यादि । विषयविभागाद् विषय विवेकादित्यर्थः । अनुजानन्ननुगृह्लातीति । विषयाभ्यनुज्ञानमेवानुग्रह इत्यर्थः । उदयनेोक्तमानानुग्राहकत्वमप्युपलक्षणं मत्वाह । अन्वयव्यतिरेकेति । अनुमानजीवितव्याप्तिग्राहकप्रमाणोपयोगित्वमेव तदनुग्राहकत्वमित्यर्थः । स्वयमप्रमाणस्य कथं प्रमाणानुग्राह
(१) रूपानुग्रह-पा. B पु.
1
७५५