________________
तर्कनिरूपणम् ।
व्याप्तिस्तर्की प्रतिहतिरवसानं विपर्यये । अनिष्टाननुकूलत्वे इति तर्कीङ्गपञ्चकम् ॥ १२ ॥ प्रसजकस्याहार्यलिङ्गस्य प्रसञ्जनीयेन व्याप्ति
व्याप्तिः प्रतितर्केर प्रतिघातः तर्की प्रतिहतिः प्रसजनीयस्य विपर्यये पर्यवसानम् । एवं चेदेवं स्यान्नैवमिति प्रसञ्जनीयस्यानिष्टत्वमुक्तं द्विविधमधस्तात् । चननु
१८७
ननु यदुक्तं कौऽनिष्टप्रसङ्ग इति तत् किं तर्कस्य सामान्यलक्षणं विशेषलक्षणं वा । आद्ये कथमनिटप्रसङ्गस्येह तकीवान्तर भेदेोक्तिः द्वितीये सामान्यलक्षणमन्यद्वाच्यम् । अत्रोच्यते पूर्वश्लेोके यत्सम्पत्त्या तर्कस्य तत्त्वज्ञानसमर्थनमुक्तं कानि तान्यङ्गानीत्याकाङ्गायामाहेत्याशयेनाह । तर्कीङ्गानीति ।
तत्र व्याप्तिं व्याचष्ये । प्रसञ्जकस्येति । आपादकस्वापाद्येन सहाविनाभावो व्याप्तिरित्यर्थः । यथा मूर्तत्वाभावे मनसः क्रियावत्त्वं न स्यात् इत्यत्रा मूर्तत्वस्य निष्क्रियत्वेनेति । तर्की प्रतितिरित्यत्र तर्कशब्देन प्रतितकी विवक्षितः अन्यथा अप्रसक्तप्रतिषेधादित्याशयेन व्याचष्टे । प्रतितकैरिति । यथेोदाहृतस्यैव मनसः मूर्तत्वे स्पर्शवत्त्वापत्तिः पृथिव्यादिवत्वेन प्रतितर्केणाप्रतिघातो धर्मग्राहकविरुद्धत्वादस्येति । आपाद्यवैपरीत्यनिष्ठत्वं तर्कस्य विपर्यये पर्यवसानं यथेोदाहृत एव न च निष्क्रियं मन इत्याशयेनाह । प्रसञ्जनीयस्येत्यादि । द्विविधमिति । प्रामाणिकप्रहाणाप्रामाणिकस्वीकरणरूपेणेत्यर्थः । अथाननुकूलत्वस्यानिष्टाद्भेदं व्यतिरेकदृष्टान्तेन व्याचष्टे । अन
ECO