________________
गच्छ
सटीकता किंकरक्षाथाम्
दकं पीतं परमन्तरधक्ष्यत् तदविशिष्टं मामपि दहेदित्यप्रामाणिकस्वीकारः । यथाहुः तर्कमधिकृत्य तात्पर्यपरिशुद्धिकाराः । तस्य च स्वरूपमनिष्टप्रमङ्ग इति ॥ २० ॥ आत्माश्रयादिभेदेन तर्कः पञ्चविधः स्मृतः । अङ्ग पञ्चक सम्पन्नस्तत्त्वज्ञानाय कल्पते ॥ ११ ॥ यथाहुः । स चात्माश्रयेतरेतराश्रयचक्रकाश्रयानवस्थानिष्टप्रसङ्गभेदेन पञ्चविध इति ॥ ७१ ॥ तर्कीङ्गानि दर्शयति ।
न्तदीहकं न भवति तत एव तहदेवेति प्रयोगे साध्यानङ्गीकारे द्वितीयस्तर्कः । तत्रोदकस्यात्यन्ताप्रसिद्धान्तदीहकत्वविधानादप्रामाणिकार्थस्वीकार इति विवेकः । अथ स्वतंतर्कलचणमुदयनोक्तलक्षणेन संवादयति । यथाहुरिति । तात्पर्यपरिशु डिनीमोदयनविरचिता वाचस्पतिकृतवार्त्तिकतात्पर्यटीकाव्याख्या । अत्राप्यनिष्टप्रसङ्गोऽनिवृव्यापकप्रसञ्जनमित्यर्थः । नन्वत्र लक्ष्यपदलाभः कथमित्याशङ्क्य प्रकरणादित्याह । तर्कमधिकृत्येति ॥ ७० ॥
अथ तर्कविभागश्लेोकं स्फुटार्थत्वान्निगदेन व्याचष्टे । आत्माश्रयेत्यादि । अथात्मतत्त्वविवेकसम्म तिव्याजेनादिशब्दार्थमाह । यथाहुः स चेत्यादि । तत्र ज्ञानघटादेरुत्व'प्तिज्ञप्तिस्थित्यादिष्वव्यवधानेन स्वापेक्षणमात्माश्रयः । aurरन्योन्यापेक्षणमितरेतराश्रयः । पूर्वस्य स्वापेक्षितमध्यमापेक्षितात्तरापेक्षितत्वं चक्रकाश्रयः । पूर्वस्योत्तरापेक्षा अनवस्था अनिष्टप्रसङ्गस्तु व्याख्यात एव ॥ ७१ ॥
EXE