________________
सटीकतार्किकरक्षायाम्
स स्यादाधार' सिद्धान्तो जगत्कर्ती यथेश्वरः । अनुमेयानुषक्तसिद्धिरधिकरणसिद्वान्तः । यथा महीमहीधर महोदधिप्रभृतीनां कर्तृमत्त्वस्य कार्यत्वानुमानेन सिद्धौ ईश्वर सिद्धिः । उपादानादिगोचरापरोक्षज्ञानचिकीषी प्रयत्नादिमतः कर्तृत्वात् पक्षीकृतविषयस्य ज्ञानादेरीश्वरव्यतिरेकेणान्यन्त्रासम्भवात् । अन्ये तु हेतुसिड्यनुषङ्गिः सिद्विरप्यधिकरणसिद्धान्त इत्याहुः । यथेन्द्रियव्यतिरिक्त चेतन साधनस्य दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति हेतोः सिद्धावनुषङ्गि
१७२
अधिक्रियत इत्यधिकरणमनुमेयार्थः तत्सिद्धौ सामर्थ्यादर्थान्तरसिद्धिरधिकरणसिद्धान्त इत्याशयेनाह । अनुमेयस्येति । उदाहरति । यथेति । मह्यादिकं कर्तृपूर्वकं कार्यत्वादिति कर्तृसिद्धाव पीश्वरसिद्धिरित्यर्थः । नन्वहवृद्वारा जीवानामेव कर्तृत्वे कथमीश्वरसिद्धिरित्याशड्य सामर्थ्यादिति मन्वानस्तदेवाह । उपादानादीति । आदिशब्दात् कारणान्तरसंग्रहः । प्रयत्नादित्यादिशब्देन साकल्योपनीतानुकूलकायव्यापारादिसंग्रहः । तथापि कथमीश्वरसिद्धिरत आह । पक्षीकृतेति । अथास्यैव मतान्तरेण लक्षणान्तरमाह । अन्ये त्विति । उदाहरति । यथेति । दर्शस्पर्शनाभ्यामेकार्थग्रहणादिति दर्शनगृहीतस्यार्थस्य स्पर्शनेन प्रत्यभिज्ञानादित्यर्थः । तथा चेन्द्रियचैतन्यपक्षे अन्यस्यान्यानुभूतार्थप्रत्यभिज्ञानापत्तेस्तत्करण कस्तदन्य प्रत्यभिज्ञाने त्वन्द्रियातिरिक्तात्मसिद्धिरिति भावः । तत्रोक्त हेतुसिद्धे स्तन्नान्तरीयकतयेन्द्रियनानात्वादिसिद्धि
एक
( १ ) स एवाधार पा. A .पु. 1
६३४