________________
प्रयोजनदृष्टान्तनिरूपणम् ।
साधर्म्यवैधर्म्यभेदात् । तत्र साधनधर्मप्रयुक्तसाध्यधर्मवान् साधर्म्यदृष्टान्तः । यथा कृतकत्वेन शब्दानित्यत्वसाधने चटः । साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तिमान् वैधर्म्यदृष्टान्तः । यथा तत्रैवाकाशः । तदुक्तम् । लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्त इति । अत्र लौकिका वैदिकबुद्धिविरहिणः प्रमाणतकाभ्यामर्थपरीक्षणक्षमाः परीक्षकाः तेषामुभयेषामपि बुद्धिसम्प्रतिपत्तिर्यत्रास्ति स दृष्टान्तः । सर्वेषां सम्प्रतिपत्तिविषय इति यावत् । अत्र वादिप्रविवादिनेोः सम्प्रतिपन्तौ तात्पर्यमिति ॥ ५६ ॥ 55 ॥
पछल
सादृान्तस्य विवक्षितं लक्षणमुदाहरणं चाह । तत्रेति । वैधदृष्टान्तस्याप्याह । साध्यधर्मनिवृत्तीति । aa or feaपरीक्षकाणां को विशेषः उभयेषां लौकिकसिद्धत्वाविशेषादित्याशङ्क्य भेदमाह । लौकिका इति । वैदिकवुद्धिविरहिण इति किं तु लौकिकव्यवहारमा
कुशला इत्यर्थः । बुडिसाम्यं ( () बुद्धित्वजातिरिति शङ्कां वारयति । बुद्धिसम्प्रतिपत्तिरिति । एतत्कोटिद्वयोपादानं सर्वोपलक्षणं काव्यन्तरपर्युदासपरं तदसम्भवादित्याह । सर्वेषामिति । तर्हि कुत्रापि सर्वसम्प्रतिपत्त्यसम्भवाद् दृष्टान्तासिद्धिरित्याशङ्कयाह । वादिप्रतिवादिनेोरिति । तत्सम्प्रतिपत्ती सर्वसम्प्रतिपत्तिः स्यादेवेति भावः । इति दृष्टान्तपदार्थः ॥ ५३ ॥ ss ॥
(१) बुद्धिमामान्यं - पा. E. |
८३१