________________
सटीकतार्किकरक्षायाम्
तदेतद्द्द्वयं वार्तम्() । विशेषसमवाययेोः समर्थनात् (२) । स्वरूपसहकारिव्यतिरेकेण शकेरभावात् । गुणगणनायामन्तर्भावात् सामान्य व
संख्याया
सादृश्यस्यान्तर्भावाञ्च । यथाहुः ।
૧૯૪
नित्या व जातिवत् प्रत्येकपरिसमाप्तिशक्तिवत् स्वातिरिक्त सप्तपदार्थवृतिरपेक्षा बुद्धिव्यया उत्पादविनाशौ तु शक्तिवदेव तत्समवायानामेव न सङ्ख्याया इति । सादृश्यं तु सदृशबुद्धिषेचं द्रव्यगुणकर्मवृत्सित्वात् ततोन्यदनुवृत्तिबुद्ध्यविषयत्वादसम्बन्धरूपत्वाच्च समवायातिरिक्तं पृथगेवेति तेषां मतम् । अत्र सादृश्यादय इत्यादिशन्द: प्रामादिकः अष्टपदार्थवादिभिस्तैः शतपादित्रयादन्यस्यादिशब्दग्राह्यस्यानभिधानात् यथोक्तं प्रमेयपरायणे द्रव्यगुणकर्मसामान्यशक्ति सङ्ख्या सादृश्यसमवाया अष्टौ पदार्थ इति । तथाग्रेलरग्रन्थे तावत एव पार्थक्यनिरासाचेत्यास्तां तावत् ॥
तदिदं मतद्वयमयुक्तमित्याह । तदेतदिति । वार्त्त फल्गु निःसारमयुक्तमिति यावत् । वार्त्त फल्गुन्यरोगे चेत्यमरः । तत्र न्यूनत्वशङ्का दत्तोत्तरेत्याह । विशेषेति । आधिक्यशङ्कां च सङ्कोचयति । स्वरूपेति । मृदादिकारणस्वरूपसह का रिसाकल्यातिरिक्त शक्तिपदार्थसद्भावे प्रमाणाभाव इत्यर्थः । सख्याया इति द्रव्यगताया इति शेषः । गुणादिगतत्वारोपितेति भावः ।
६२६
(१) ऋयुक्तम्- प्रा. B पु. (२) सर्मार्थतत्वात् - पा· B
पु.
1